सोऽयमेतै: शतगुणैर्विशिष्टकश्चारिसूदन:।
प्रविष्ट्: शोणितपुरं बाणमाक्रम्य मूर्धनि।।41।।
यस्या नैवंविधो भर्ता भवेद् युद्धविशारद:।
कस्तस्या जीवितेनार्थो भोगैर्वास्यमम्बुजेक्षणे।।42।।
धन्यास्यवनुगृहीतासि यस्यास्ते पतिरीदृश:।
प्राप्तो देव्यान: प्रसादेन कन्दर्पसमविक्रम:।।43।।
इदं तु यत कार्यतमं श्रृणु त्वं तन्मयेरितम्।
विज्ञेयो यस्य पुत्रो वै यन्नामा यत्कुलश्च स:।।44।।
इत्येेवमुक्ते वचने तत्रोषा काममोहिता।
उवाच कुम्भाण्डसुतां कथं ज्ञास्याम्यहं सखि।।45।।