उषोवाच
एवं संधर्षिता साध्वीश कथं जीवितुमुत्सहे।
पितरं किं नु वक्ष्यामि देवशत्रुमरिंदमम्।।11।।
एवं संदूषणकरी वंशस्यास्य महौजस:।
श्रेयो हि मरणं मह्यं न मे श्रेयोऽद्य जीवितम्।।12।।
ईप्सितो वा यथा कोऽपि पुरुषोऽधिगतो हि मे।
जाग्रतीव यथा चाहमवस्थैवं कृता मम।।13।।
निशायां जाग्रतीवाहं नीता केन दशामिमाम्।
कथमेवं कृता नाम कन्या जीवितुमुत्सहे।।14।।
कुलोपक्रोशनकरी कुलांगारी निराश्रया।
जीवितुं न स्पृहेन्नारी साध्वीनामग्रत: स्थिता।।15।।