ततोऽहं परमप्रीतो भगवन्तं वृषध्वजम्।
प्रणम्य शिरसा देवं तवान्तिकमुपागत:।।56।।
इत्येवमुक्त: कुम्भाण्ड: प्रोवाच नृपतिं तदा।
अहो न शोभनं राजन् यदेवं भाषसे वच:।।57।।
एवं कथयतोस्तत्र तयोरन्यो न्यामुच्छ्रित:।
ध्वज: पपात वेगेन शक्राशनिसमाहत:।।58।।
तं तथा पतितं दृष्ट्वा सोऽसुरो ध्वजमुत्तमम्।
प्रहर्षमतुलं लेभे मेने चाहवमागतम्।।59।।
ततश्चकम्पे वसुधा शक्राशनिसमाहता।
ननादान्तर्हितो भूमौ वृषदंशो जगर्ज च।।60।।