ध्वजस्यास्य यदा भंगस्तव तात भविष्यति।
स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति।।31।।
इत्येवमुक्त: प्रहसन् बाणस्तु बहुशो मुदा।
प्रसन्नवदनो भूत्वा पादयो: पतितोऽब्रवीत्।।32।।
दिष्ट्या बाहुसहस्रस्य न वृथा धारणं मम।
दिष्ट्या सहस्राक्षमहं विजेता पुनराहवे।।33।।
आनन्देनाश्रुपूर्णाभ्यां नेत्राभ्याामरिमर्दन:।
पंचांजलिशतैर्देवं पूजयन् पतितो भुवि ।।34।।
ईश्वर उवाच
उत्तिष्ठोतत्तिष्ठा बाहूनामात्मान: स्वभकुलस्य तु ।
सदृशं प्राप्य् से वीर युद्धमप्रतिमं महत्।।35।।