कांचनस्याग्ररत्नस्य धातूनां च विशेषत:।।56।।
तेन खल्वाकरा: सर्वे भवन्तो भुवि शाश्वता:।
ते ममैतद् वच: श्रुत्वा पर्वतास्तुस्थुषां वरा:।।57।।
ऊचुर्मां सान्त्वयुक्तानि वचांसि वनशोभिता:।
ब्रह्मर्षे न वयं धन्या नाप्याश्चवर्याणि सन्ति न:।
ब्रह्मा प्रजापतिर्धन्य: सर्वाश्चचर्य: सुरेष्वपि।।58।।
सोऽहं प्रजापतिं गत्वा सर्वप्रभवमव्ययम्।
तस्यं वाक्यस्यर पर्यायपर्याप्तमिव लक्षये।।59।।
सोऽहं पितामहं देवं लोकयोनिं चतुर्मुखम्।
स्तोतुं पश्चादुपगत: प्रणतोऽवनतानन:।।60।।