तत: श्रीमान्हृषीकेश: सह यादवपुंगवै:।।11।।
समीपं मानवेन्द्राणां निर्ययौ कमलेक्षण:।
स तेषां नरदेवानां मध्यरस्थो मधुसूदन:।।12।।
व्यराजत यदुश्रेष्ठ: शरदीव दिवाकर:।
स तत्र समुदाचारं यथास्थाषनं यथावय:।।13।।
कृत्वा सिंहासने कृष्ण: कांचने निषसाद ह।
राजानोऽपि यथास्थांनं निषेदुर्विविधेष्वथ।।14।।
सिंहासनेषु चित्रेषु पीठेषु च नराधिपा:।
स यादवनरेन्द्रारणां समाज: शुशुभे तदा।।15।।
सुराणामसुराणां च सदसि ब्रह्मणो यथा।