राज्ञो वाक्यं निशम्याथ प्रणम्य शिरसाभुवि।।11।।
ससैन्यं नोदयामास रथं स: सुसमाहितम्।
युक्तयमृष्यसहस्रेण सर्पयोक्त्रेण योजितम्।।12।।
शार्दूलचर्मसंविष्टं किंकिणीजालमालिनम्।
ईहामृगगणाकीर्णं पंक्तिभक्तिविराजितम्।।13।।
ताराचित्रपिनद्धांगं स्वर्णकूबरभूषितम्।
सुपताकमहोच्छ्रायं मृगराजोग्रकेतनम्।।14।।
सुविभक्तवरूथं च लोहेषावज्रकूबरम्।
मन्दभरोदग्रशिखरं चारुचामरभूषितम्।।15।।