यदि तेऽहं सुत: सौम्ये यदि वा नात्मज: शुभे।।21।।
कथितं तत्त्वमिच्छामि किमिदं ते चिकीर्षितम्।
एवमुक्ता तु सा भीरु: कामेन व्यथितेन्द्रिया।।22।।
प्रियं प्रोवाच वचनं विविक्ते केशवात्मजम्।
न त्वं मम सुत: कान्त नापि ते शम्बर: पिता।।23।।
रूपवानसि विक्रान्तस्त्वं जात्या वृष्णिनन्दन।
पुत्रस्त्वं वासुदेवस्य रुक्मिण्यानन्दवर्धन:।।24।।
दिवसे सप्तमे बालो जातमात्रोऽपवाहित:।
सूतिकागारमध्यात् त्वं शिशुरुत्तानशायित:।।25।।