तत: प्राप्ता नराग्र्यौ तु तस्या: सा दुहिता तदा ।
एकानंशेति यामाहुर्नरा वै कामरूपिणीम्।।11।।
तथा क्षणमुहूर्ताभ्यां यथा जज्ञे सुरेश्वर:।
यत्कृते सगणं कंसं जघान पुरुषोत्तम:।।12।।
सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता।
पुत्रवत् पाल्यमाना वै वासुदेवाज्ञया तदा।।13।।
एकानंशेति यामाहुरुत्पन्नां मानवा भुवि।
योगकन्यां दुराधर्षां रक्षार्थं केशवस्या ह।।14।।
यां वै सर्वे सुमनस: पूजयन्ति स्म यादवा:।
देववद् दिव्यपुरुष: कृष्ण: संरक्षितो यया।।15।।