शंखह्रदादुद्धरणं च वीर पद्मोत्पालानां मधुसूदनेन।
गोवर्धनोऽर्थे च गवां धृतोऽभूद् यथा च कृष्णेन जनार्दनेन।।11।।
कुब्जां यथा गन्धकपीषिकां च कुब्जत्वहीनांकृतवांश्च कृष्ण:।
अवामनं वामनकं च चक्रे कृष्णो यथाऽऽत्मा्नमजोऽप्यननिन्द्य:।।12।।
सौभप्रमाथं च हलायुधत्वं वधं मुरस्याप्याथ देवशत्रो:।
गान्धामरकन्या्वहने नृपाणां रथे तथा योजनमूर्जितानाम्।।13।।
तत: सुभद्राहरणे जयं च युद्धे च बालाहकजम्बुमाले।
रत्नप्रवेकं च युधाजितैर्यत् समाहृतं शक्रसमक्षमासीत्।।14।।
एतानि चान्याननि च चारुरूपा जगु: स्त्रिय: प्रीतिकराणि राजन्।
संकषणाधोक्षजहर्षणानि चित्राणि चानेककथाश्रयाणि।।15।।