शुचिं योगं शंसनं शान्तनपापं शर्वं शम्भुं शंकरं भूतानाथम्।
धुरंधरं गोपतिं चन्द्रचिह्नं हृषीकाणामयनं यामि मूर्ध्ना।।36।।
आशु: शिशानं वृषभं रोरुवाणं कृतं धर्म वितथं चाशुशेषम्।
वसुंधरं समृजिकं समं त्वां धृतव्रतं शूलधरं प्रपद्ये।।37।।
अनन्तरवीर्यं धृतकर्माणमाद्यं यज्ञाशेषं जयता चाभियाज्यम्।
हविर्भुजं भुवनानां सदैवं ज्येमष्ठं द्विजं धर्मभृतां प्रपद्ये।।38।।
परं गुणेभ्य: पृश्निगर्भस्वरूपं यश: श्रृगं व्यूहनं कान्तारूपम्।
शुद्धात्मायनं पुरुषं सत्यधामं सम्मोहनं दुष्कृतिनां नमस्ये।।39।।
युक्तोङ्कारं स्वशिरसं चारुकर्म दृढव्रतं दृढधन्वानमाजम्।
शूरं वेत्तारं धनुषोऽस्त्रातिरेकं पतिं पशूनां शमनं नमस्येक।।40।।