उपभोगा मनुष्या्णां विहिता ये स्व्यंभुवा।
तैस्तु तुष्यतु मे भ्राता सम्पाश्य न् कालपर्ययम्।।51।।
इहापि तात त्रिदिवे मम य: स्यामतपरिग्रह:।
त्रिदिवस्थो्ऽपि तं कृष्णत: सर्वं भोक्तु मिहार्हति।।52।।
हृष्टो ह्यामिषभोज्यानामभिमानाज्ज्नार्दन:।
ततो धर्म समुत्सृज्य पापमेवानुवर्तते।।53।।
स्त्रीवश्यता ख्यायप्य्माना कृष्णगस्य हि महात्मन:।
जगत्ययशसा योगं जनयेदिति मे मति:।।54।।
मानुष्यं मानुषे प्राप्तो यदेतन्मतधुसूदन:।
कुर्यान्निर्बन्धयनीयं यद् भ्रात्रा ज्येनष्ठेन नारद।।55।।