- केयं कान्तिः केशव त्वन्मुखेन्दोः
- कोऽयं वेषः कापि वाचामभूमिः।
- सेयं सोऽयं स्वादतामञ्जलिस्ते
- भूयो भूयो भूयशस्त्वां नमामि।।95।।[1]
अन्वयः – हे केशव ! इयं तन्मुखेन्दोः कान्तिः का (अदृष्टपूर्वा), अयं वेशः कः (अदृष्टपूर्वः), वाचां कापि अभूमिः। सा इयं (कान्तिः) सोऽयं (वेशः) स्वादतां (स्वयमेवास्वाद्यो भवताम्), भूयः भूयः भूयशः ते अञ्जलिः त्वां नमामि (न किञ्चिद् वक्तुं शक्नोमीत्यर्थः)।।95।।
अनुवाद- हे केशव ! तुम्हारे मुखचंद्र की कैसी अपूर्व कान्ति है। सभी वाक्य के अगोचर। इस कान्ति, इस वशका तुम ही आस्वादन करो। मैं केवल अञ्जलिबद्ध होकर तुम्हें बार-बार प्रणाम करता हूँ।।95।।
कृष्णवल्लभा
अथ श्रृंगाररस- सर्वस्वमूर्तेः श्रीकृष्णस्य साक्षादिवानुभूयमानां श्रीमुखेन्दोः शोभां वेशं च वर्णयन्नाह– केयमिति। हे केशव, प्रशस्ताः केशा अस्येति। ‘केशाद्वोऽन्यतर - स्यामिति’ [2] सूत्रेण वः। त्वन्मुखेन्दोस्तव मुखचंद्रस्येयं कान्तिः कात्यपूर्वा। पद्मचंद्रादीनां कान्तिर्निरूपयितुं शक्यते, इयन्तु वक्तुमशक्या। कान्तिस्तु दूरादास्ताम् – अयं वेशः कः। वेशस्तिलक- रचनादिनिर्माणम्। निर्वक्तुमशक्य इत्यर्थः। कान्तिवेशौ कथं वक्तुमशक्यौ तत्राह- वाचां काप्यभूमिरविषयः, अनिर्वचनीयस्वाद्यत्वात्। तदेवाह- सेयं कान्तिः सोऽयं वेषः स्वादतां स्वमेवास्वाद्यौ भवताम्। अस्माकमास्वाद्यौ न स्तः। तर्हि तदाशंसया किम्, तत्राह- ते तुभ्यमञ्जलिः प्रार्थनारूपः तत् प्रतिबन्धकाज्ञानावरणनिराकरणार्थम् भूयो भूयो भूयशः। ‘वह्वल्पार्थ’[3] इति सूत्रेण बहुत्वे शस्। त्वामेव नमामि। तत्रोपायान्तराभावात्। यद्वा, सेयं सोऽयं स्वादतां चक्षुषा समासाद्यौ भवताम्। मद्विधानां महादुरन्ततदाशानां तादृशसौभाग्यं त्वत्कृपां बिना न घटत इति भावः।।95।।
|