- तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भव-
- द्भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासिने।
- श्रीमद्गोकुलमण्डनाय मनसां वाचाञ्च दूरस्फूरन्
- माधुर्यैकमहार्णवाय महसे कस्मैचिदस्मै नमः।।109।।[1]
अन्वयः – निर्भरहर्षवर्षविवशावेश- स्फुटाविर्भवद् भूयश्चापलभूषितेषु (निर्भरहर्षाणां तन्माधुर्यास्फूर्त्यानन्दानां ये वर्षास्तेन विवशत्वापादको य आवेशस्तेन आविर्भवद् यत् प्रचुरचापलं तद्दर्शनौत्कण्ठ्यं तेन भूषितेषु) सुकृताम् (तत्प्रेमविशेषभाजाम्) भावेषु निर्भासिने (भावाक्रान्तचित्तेषु प्रकाशमानाय) श्रीमद् गोकुलमण्डनाय मनसां वाचां च दूरस्फुरन् माधुर्यैकमहार्णवाय कस्मैचिद् अस्मै महसे तुभ्यं नमः।।109।।
अनुवाद- जो सुकृतजन (पुण्यात्मा) अत्यंत हर्षवर्षण (आनन्दधारा) के कारण विवश- आविष्ट हो जाते हें; जो तुम्हारी दर्शन- उत्कण्ठा से उत्पन्न चपल हो उठते हैं, उनके भावाक्रान्त चित्त में जो आविर्भूत होते हैं- उन्हीं श्रीमद्गोकुल के भूषणस्वरूप, मन-वाणी से दूर, माधुर्य के महासमुद्र किसी अनिर्वचनीय तेजःपुञ्ज को नमस्कार है।।109।।
कृष्णवल्लभा
सम्प्रति यथानुभवमनुवर्णयन्नमति- तुभ्यमिति। कस्मैचिदनिर्वचनीयत्त्वाय महसे ज्योतिषेऽस्मै पुरः स्फूर्यमाणाय तुभ्यं नमः। एतेन निराकार- ब्रह्मज्योतिषः साकारभगवद्रूपज्योतिः सर्वतोविलक्षणमिति दर्शितम्। वैलक्षण्यं त्वनुभूयत एव, प्रत्यक्षत्वात्। किदृशाय तुभ्यम्- सुकृतां शोभनमेकान्त- भावेन त्वत्परिचरणरूपं कृत् कर्म येषां तेषां भावेषु भाववदन्तः करणेषु निर्भासिने नितरां भासमानाय। प्रकाशमानायेति यावत्। भावेषु कीदृशेषु- निर्भरहर्षवर्षविवशावेश- स्फुटाविर्भवद्भूय- श्चापल- भूषितेषु। निर्भरमतिशयो यो हर्षवर्षः श्रीकृष्णदर्शनायोल्लासरूपस्तेन विवश आयतो य आवेशश्चित्तस्य कथमप्यनिवार्य- तीव्रतमौषस्तेन स्फुटं यथा स्यात्तथाविर्भवत् प्रकटीभवद्भूयः प्रचुरतरं यच्चापलं तद्दर्शनायैव, तेन भूषितेष्वलंकृतेषु। पुनः कीदृशाय तुभ्यम् – श्रीमद्गोकुल- मण्डनाय। श्रीमत् परमसम्पत्तिमद् यद्गोकुलं तस्य मण्डनाय। व्रजवासिमात्र- प्रेमानुसारेण तत्र तत्र तदा तदाविर्भवत इत्यर्थः। पुनः कीदृशाय- मनसां वाचाञ्च दूरस्फुरन्माधुर्यैंक- महार्णवाय। दूरं स्फुरन्माधुर्यस्यैको मुख्यो महार्णवो यत्र तस्मै। मनोवचसी यन्माधुर्यं निरुपयितुमसमर्थे इत्यर्थः।।109।।
|