- विश्वोपप्लव- शमनैक- वद्धदीक्षं
- विश्वास- स्तवकित – चेतसां जनानाम्।
- प्रश्याम- प्रतिनव- कान्ति- कन्दलार्द्रं
- पश्यामः पथि पथि शैशवं मुरारेः।।56।।[1]
अन्वयः – विश्वासस्तव कितचेतसां जनानाम् (विश्वासेन स एवं सर्वं सम्पादयिष्यतीति निश्चयेनो-त्फुल्लचेतसां जानानाम्) विश्वोप्लवशमनैकबद्धदीक्षम् (सर्वे य उपद्रवास्तेषां शमने केवला बद्धा गृहीता दीक्षा येन) प्रश्याम- प्रतिनव- कान्ति – कन्दलाद्रम् (प्रकर्षेण श्यामाः प्रतिक्षणनूतनाश्च ये कान्त्यं - कुरास्तैरार्द्रम्) मुरारेः शैशवं पथि पथि पश्यामः।।56।।
अनुवाद- जो दृढ़ विश्वास के साथ श्रीकृष्ण का आश्रय ग्रहण करते हैं, उनके सभी प्रकार के विघ्नों के प्रशमन के लिए जिन्होंने व्रत लिया है, उन्हीं मुरारि की कैशोरमाधुरी हम लोग पथ-पथ पर देख रहे हैं। वह कैशोरमाधुरी, जो प्रतिक्षण अभिनव श्यामलकान्ति की कन्दली से आर्द्रा हो रही है!।।56।।
कृष्णवल्लभा
तत् कैशोरादिकं दैवतेऽपि दुर्लभमित्युक्तम्। सम्प्रति तच्चापल्यविशेषदर्शन-मनुभवन्नाह विश्वोपप्लवेति। मुरारेः। श्रीकृष्णस्य शैशवं चापल्यं पथि पथि वीथ्यां वीथ्यां पश्यामोऽनुभवामः, दृशेर्ज्ञानवचनत्वान्। अनेन तारुण्योपकारित्वेन चापल्यस्याति- मधुरत्वमुक्तम्। कीदृशं शैशवम्- विश्वासस्तवकित-चेतसां जनानां विश्वोपप्लवशमनैकबद्धदीक्षम्। विश्वासै प्रत्ययैः स्तवकितानि परमकारुणिकः श्रीकृष्णोऽयमिति फुल्लप्रायाणि चेतांसि येषां तेषां जनानां विश्वस्य समस्तस्योपप्लवस्य शमनाय शान्त्यै बद्धा गृहीतै का मुख्या दीक्षा येन तत्। पुनः कीद़ृशम्- प्रश्यामप्रतिनवकान्ति- कन्दलार्द्रम्। प्रश्यामा प्रकृष्टश्यामा या प्रतिनवा प्रतिक्षणं नवा नव्या कान्तिस्तस्याः कन्दल उद्भेदस्तेनार्द्रं सरसम्। यद्वा, प्रश्यामप्रतिनवकान्तिकन्दलेनार्द्रयतीति तथा।।56।।
सुबोधनी
पुनरकस्मात् पुरः स्फुरच्चापल्यं पश्यन्निवाह- मुरारेः शैशवं पथि पथि पश्यामः। तद्दर्शने तत्कारुण्यमेव निदानमित्याह- विश्वासेन स एव सर्वं सम्पादयिष्यतीति निश्चयेनोत्फुल्ल- चेतसां जनानां सर्वे य उपद्रवास्तेषां शमने केवला गृहीता दीक्षा येन। तन्माधुर्यस्फूर्त्याह- प्रकर्षेण श्यामाः प्रतिक्षणनूतनाश्च ये कान्त्यंकुरास्तैरार्द्रम्।।56।।
|