अहिमकर – करनिकर - मृदुमुदितलक्ष्मी-
- सरसतर – सरसिरुह – सदृशदृशि देवे।
- व्रजयुवति – रतिकलह – विजयि – निजलीला-
- मदमुदित – वदनशशि – मधुरिमणि लीये।।51।[1]
अन्वयः – अहिमकरकरनिकर- मृदृमुदितलक्ष्मी- सरसतसरसिरुहसदृशदृशि (सूर्यकिरणसमूहेन ईषद्विकशितेन या शोभा तया सरसतरं यत् सरसिरुहं तत्सदृशौ दृशौ यस्य तस्मिन्) व्रज-युवतिरतिकलहविजयिनिज-लीलामदमुदित-वदनशशि-मधुरिमणि (व्रजयुवतिभिः सह यः रतिकलहः तत्र विजयिनी निजासाधारणी या लीला तया यः मदः तेन उल्लसितः यः वदनशशी तस्य मधुरिमा यस्मिन् तस्मिन्) देवे लीये (अहं लीनः भवामि)।।51।।
अनुवाद- तरुण अरुण (सूर्य) – किरणों से मृदुमुदित शोभायुक्त सरससरसि (तालाब)- जात पद्म की तरह नेत्र हैं, व्रजयुवतियों के साथ हुए रतिकलह में अपनी विजय-लीला के गर्व आदि से जिनका प्रफुल्ल्ल वदन अत्यन्त माधुरीयुक्त हो रहा है- उन्हीं देव में मेरा मन डूबा है।।51।।
कृष्णवल्लभा
अथ तस्य चापल्यादि सर्वमेव मधुरमधुरम्, तस्मान्मधुरिमशब्दवाच्य एवायम्, अतोऽहमत्रैव विलीय तिष्ठामीत्यौत्सुक्येनाह- अहिमकरकरेति त्रिभिः। देवे दीव्यते द्योत्यत इति देवस्तस्मिन्नहं लीनो भवामि। श्रीकृष्णे एवं रसाविष्टे विहरति सत्यहं तत्रैव लीनो भूत्वा पश्यामीत्यर्थः। कीदृशे- अहिमकरकरनिकर-मृदुमुदितलक्ष्मी सरसतरसरसिरुहसदृशदृशि। अहिमकरः सूर्यः। न हिमाः शीतलाः कराः किरणा यस्य। शीता न भवन्ति तावन्न तृष्णा इत्यहिमपदात् प्राप्यते। तस्य करनिकरेण किरणसमूहेन कृत्वा मृदुर्मृद्वी कोमला। स्निग्धेति यावत्। मुदिता हृष्टा स्फीता च या लक्ष्मीः शोक्षा तया सरसतरमतिसरसं यत्सरसिजं कलम तत्सदृशे दृशौ यस्य तस्मिन्। यदि मध्यान्हकालीन स्तीक्ष्णः सूर्यरश्मिसम्बन्धस्त-र्ह्यन्तर्मकरन्दत्वेऽपि बहिःशुष्कतैव स्यात्, अतो कार्कश्यापत्तिः। यदि चातिप्रातःकालीनः सूर्यकर-संयोगस्तर्हि न विकाशबाहुल्यम्। अतो नातिप्रचण्ड-सूर्यकरनिकरेण बहिःस्निग्धता विकाशबाहुल्यञ्च यस्य कमलस्य तद्वन्नयनशालित्वं सूचितम्। पुनः कीदृशे- व्रजयुवति-रतिकलह- विजयनिज-लीलामदमुदि- तवदनशशि-मधुरिमणि।
|