श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः पिच्छावतंसरचनोचित- केशपाशे (पिच्छमयस्य शिरोभूषणस्य रचनाय योग्यः केशपाशः यस्मिन् तत्र) पीनस्तनीनयनपंकज- पूजनीये (पीनस्तनीभिर्व्रजसुन्दरीभिः सानन्ददर्शनयोग्ये) चंद्रारविन्द विजयोद्यत- वक्त्रबिम्बे (चंद्रस्य तथा अरविन्दस्य विजयाय उद्यतं वक्त्रबिम्बे (चंद्रस्य तथा अरविन्दस्य विजयाय उद्यंत वक्त्रारविन्दं यस्य तस्मिन्) तव शैशवे (कैशोर) नः (अस्माकम्) नयनं चापल्यमेति।।31।। अनुवाद- रचनायोग्य केशपाश मोरपंखों से शोभित; पीनस्तनी गोपबालाओं के नयन कमलों द्वारा पूजित; श्रीमुख चंद्रमा और कमल की शोभा को पराजित करने के लिए उद्यत है- तुम्हारा ऐसा कैशोर मेरे नेत्रों को चञ्चल कर रहा है।।31।। कृष्णवल्लभा अथाविर्भुत- परमरसंमय- दिव्यकिशोर मधुरिम महाचमत्कार- धारानिधि श्रीकृष्ण- चापल्य-मनुभुत- मपि पुनरप्यनुभिवतुमिच्छामीति प्रार्थयते- पिच्छेति। तव शैशवे तारुण्यमिश्रिते। तारुण्यस्य किञ्चिन्मात्राकुरिततया शैशवबाहुल्यात्त- देवोक्तम्। सौन्दर्य- सोकुमार्यातिशयचापल्यरूपे नोऽस्माकं नयनम्। नीयन्ते विषया अनेनात्मानं प्रतीत्यन्तः करणम्। नयनं वा, चापल्यं चपलतामेति गच्छति। पुनः पुनर्द्रष्टुमुत्कण्ठतरलं भवतीत्यर्थः तदेव शैशवं सुचयितुं विशिनष्टि- पिच्छेति। पिच्छानामवतंसः शरोभूषणं यत्र तादृशं यद्रचनं नानापुष्पादिभिश्चूड़ारूपेण विरचनं विविध प्रकार- कल्पनारूप- बन्धन- विशेष- स्तदुचितः केशपाशः केशकलापो यत्र। एतत्तारुण्य एव। “पाशः पक्षश्च कलापार्थाः कचात् परे” इत्मरः (2/6/98)। पुनर्विशिनष्टि- पीनस्तनीनयन- पंकजपूजनीये। पीनस्तन्यो गोपकिशोर्यास्तासां नयनपंकजैः पूजनीये। समन्ततः स्थितानां व्रजसुन्दरीणां नेत्र पंकज- प्रतिबिम्बतांग- चमत्कारत्वाम्। पुनर्विशिनष्टि- चंद्रारविन्द विजयेद्यत वक्त्रबिम्बे। अमृत चंद्रिकाल्हादन रूपश्चंद्रः। सीधुशैत्यसौरभ- सौकुमार्यरूपमरविन्दम्। तयोर्विजयायोद्यतं कृतोद्यमं वक्त्रबिम्बं मुखमुण्डलं यस्य तस्मिन्। गीपीदृक् चकोर यूथैरतिपिपासितैः पेपीयमानानान- चंद्रिकामृतत्त्वात् क्रीडारसोल्लाससमुच्छल द्दशदिग्व्यापि- विमलौगरचंद्रिका महार्णवत्वाच्चन्द्रविजयः। सरसमधुर दृष्टिमाध्वीक मधुरच्छटाभिरुन्दमादित- सकलगोपीसमाजत्वात् प्रफुल्लारविन्द विजय इति।।31।।
|
टीका टिप्पणी और संदर्भ
- ↑ वसन्ततिलकं छन्दः
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज