- धन्यानां सरसानुलापसरणीसौरभ्यमभ्यस्यतां
- कर्णानां विवरेषु कामपि सुधावृष्टिं दुहानं मुहुः।
- वन्यानां सुदृशां मनोनयनयोर्मग्नस्य देवस्य नः
- कर्णानां वचसां विजृम्भितमहो कृष्णस्य कर्णामृतम्।।111।।[1]
अन्वयः – अहो ! कर्णानां विवरेषु कामपि सुधावृष्टिं मुहुः दुहानं वन्यानां सुदृशां मनोनयनयोर्मग्नस्य नः देवस्य धन्यानां सरसानुलापसरणीसौरभ्यं कर्णानां वचसां विजृम्भितं कृष्णस्य कर्णामृतम् अभ्यस्यताम्।।111।।।
अनुवाद- अहो, भक्तों के कर्णविवरों में रहरहकर सुधा बरसाने वाला, हमारे देवता- जिसमें मनोहर सुनेत्रा गोपियों के मनोनयन मग्न रहते हैं, ऐसे हमारे देवता के श्रवणों और वचनों का विलासस्वरूप है यह श्रीकृष्णकर्णामृत। महिमाधन्य कृष्णभक्त अपनी सरस कृष्णकथा की प्रसंग- परंपरा में इसका आस्वादन करें।।111।।
कृष्णवल्लभा
एवं संप्रार्थ्य श्रीकृष्णकर्णामृतस्वरूपं वदन् स्तौति- धन्यानामिति। अहो रसिका नोऽस्माकं वचसां विजृम्भितं विलासरूपं श्रीकृष्णकर्णामृतं श्रियो श्रीराधायाः श्रीकृष्णस्य कर्णयोरमृतवादस्वादयन्तु। अस्य महिमा किम्वाच्य इत्यर्थः कीदृशम्- धन्यानां श्रीकृष्णभाव- रहस्य- निष्ठानां कर्णानां विवरेषु मुहुर्बारम्बारं कामप्यनिर्वचनीयां सुधावृष्टि दुहानं प्रपूरयत्। दुहेरुभयपदित्वात्। धन्यानां कीदृशानाम्- सरसानुलापसरणी सौरम्भमभ्यस्ताम्। सरसः श्रीकृष्णविलास- प्रतिपादकत्वाद् योऽनुलापो मुहुर्भाषणमास्वादातिशयेन पुनः पुनः कथनं स एव सरणी वर्तनी तत्संबंधि तदभिव्यज्यमानं यत् सौरभ्यं श्रीकृष्णिलासानन्दस्तदभ्यस्यतां पुनः- पुनरास्वाद्यताम्। ‘अनुलापो मुहुर्भाषा’[2], सरणिः पद्धतिः पद्या वर्तन्येकपदीति च[3] इत्यमरः। किञ्च वन्यानां सुदृशां श्रीवृन्दावनोद्भव- विलासिनीनां मनोनयनयोर्मग्नस्य नोऽस्मांक देवस्य श्रीकृष्णस्य कर्णानां विवरेषु सुधावृष्टिं दुहानमित्यन्वयः। यद्वा, तासां तन्मनोनयनयोर्माग्नस्य श्रीकृष्णस्य च कर्णानामिति। अन्यत् समानम्।।111।।
|