- त्रिभुवनसरसाभ्यां दिव्यलीलाकुलाभ्यां
- दिशि दिशि तरलाभ्यां दृप्तभूषादराभ्याम्।
- अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-
- मयमयमनु- कुज- द्वेणुरायाति देवः।।81।।[1]
अन्वयः – त्रिभुवनसरसाभ्याम् (त्रिभुवनेषु सरसाभ्याम्) दिव्यलीलाकुलाभ्याम् (दिव्यानां गतिलीलानांकुलं समूहो ययोः) दिशि दिशि तरलाभ्यां दृप्तभूषादराभ्यां (दृप्ता प्रोज्वलिता या नूपुरादिभुषा-स्तासामादरो ययोः) अशरण- शरणाभ्याम् अद्भुताभ्यां पदाभ्यां अयमयं देवः वेणुमनुकूजद् आयाति।।81।।
अनुवाद- जिनके पादपद्म त्रिभुवन के सभी रसों से अधिक सरस हैं, अति आनन्दप्रद दिव्य लीलाओं के स्थल हैं, वही नूपुर आदि भूषणों की ध्वनि करते, वेणु बजाते-बजाते, अशरण-शरण अद्भुत चरणों की नृत्यतरल गति से आ रहे हैं।।81।।
कृष्णवल्लभा
अथ पुनश्चक्षुर्गौचरमिव निकटमायान्तं श्रीकृष्णं विचित्रलीला – वेशादिविशिष्ट-मनुभवन्नाह-त्रिभुवनसरसाभ्यामिति। देवोऽसाधारण – द्युतिक्रीड़ा-विशेषयुक्तः श्रीकृष्णः। अममयं सम्भ्रमाद् द्विरूक्तिः। कीदृशः – अनुकूलजन्वेणुर्यस्य सः। वेणुं वादयन्नेवायातीत्यर्थः। काभ्यामायाति- अद्भुताभ्यां पदाभ्याम्। न तु यानादिना। अहो मद्भाग्यमहिमा स्वचरणकमले दर्शयन्नायातीत्यर्थः। पदाभ्यां विशिष्ट इति वा। किदृशाभ्याम्- त्रिभुवनेषु सरसाभ्याम्। रस परमानन्दस्तद्वद्भयाम्। त्रिभुवनमित्युपलक्षणम्। अतः परं त्रिभुवने सरसता नास्तीत्यर्थः। मधुररस – चमत्काराणां तत्रैव परमातिशयत्वात्। यद्वा, त्रिभुवनं सरसं सानुरागं ययोः। पुनः कीदृशाभ्याम्- दिव्यलीलाकुलाभ्याम्। दिव्यानां गतिलीलानां कुलं समूहयो ययोः। यद्वा, दिव्यलीला यासां ता गोप्यस्ताभिर्निमित्त भूताभिराकुलाभ्याम्। अतएव दिशि दिशि तरलाभ्याम्। ता यस्यां दिशि गच्छन्ति तासामानयनार्थं चञ्चलाभ्यामित्यर्थः। पुनः कीदृशाभ्याम्- दृप्तभूषादराभ्याम्। दृप्तोद्रिक्तनाददीप्तविषया या भूषा पादागंद- नूपुरादिरूपा तयादरो ययोः। तच्चलने तेषां सोल्लासनादपरत्वाद्। धराभ्यामिति पाठे- दृप्ताया भूषाया अलंकृतेर्धराभ्यां पोषकाभ्यां दृप्तभूषाधराधो ययोरिति वा। ध्वजवज्रादि- चिह्नवत्तया। पुनः कीदृशाभ्याम्- अशरणा- नामस्माकं शरणाभ्याम्। येषामन्यच्छरणं नास्ति, स्वाभीष्टस्यान्यान्यतोऽसिद्धेः, तेषां रक्षितृभ्यामित्यर्थः। शरणं गृहरक्षित्रोः[2] इत्यमरः।।81।।
|