- सोऽयं मुनीन्द्रजनमानसतापहारी
- सोऽयं मदव्रजवधूवसनापहारी।
- सोऽयं तृतीयभुवनेश्वरदर्पहारी
- सोऽयं मदीयहृदयाम्बुरुहापहारी।।82।।[1]
अन्वयः – सः अयं मुनीन्द्रजनमानसतापहारी (यः) मदव्रजवधूवसनापहारी सः अयम् (यः) तृतीय-भुवनेश्वर दर्पहारी सः अयम्, (यः) मदीय- हृदयाम्बुरुहापहारी सः अयम्।।82।।
अनुवाद- यही हैं मुनियों के मानसतापहारी, यही हैं उन मदगर्विता व्रजवधुओं के वस्त्र अपहरणकर्ता, यही वे स्वर्ग के राजा इन्द्र के दर्पहारी हैं, और यही मेरे हृदयकमल के अपहरणकारी हैं।।82।।
कृष्णवल्लभा
सम्प्रति पुरः स्फुरच्छीकृष्णस्वरूप-मवलोकयन्नाह- सोऽयमिति। स यादृशो महद्भिरुपवर्णितः श्रुतियुक्तिनिर्द्धारितश्चरञ्च भावतस्तादृश एवायम्। मदीयहृदयाम्बुरुहापहारी- ममेदं मदीयम्, मदीयहृदय-मेवाम्बुरुहम्। श्रीकृष्ण- प्रेममकरन्द-सम्भृतत्त्वात् तस्यापहारी। सर्वात्मना मद्वुद्धेः स्वैकमग्नताकारीत्यर्थः। किञ्च यः परमनिजरसमय- पदवीविश्रान्ति- पर्यन्तविचारप्रदः स एवायम्- मुनीन्द्रजनमान- सतापहारी। मुनीनां सर्वेषां य इन्द्राः परमपदवीयाः। स्वरूपस्यर्षि-मननत्वात्। त एव जना निजजनास्तेषां मानसतापम-निश्चयजं हरतीति सः। किञ्च, मदानां श्रीकृष्ण प्रेमरसमत्तानां व्रजवधूनां यो वसनस्यापहर्ता सोऽयम्। तृतीयभुवनेश्वर दर्पहारी-तृतीयभुवनेश्वर- इन्द्रस्तस्य दर्पं गोवर्धनोद्धरणेन, हृतवान् स एवायम्। अयम्भावः- मुनीन्द्राणामन्तरनुभवेना-ज्ञाननाशकत्वमात्रम्, न त्वनुभवविशेषः। व्रजवधूनां वसनापहरणेन सम्भोगसुखमात्रम्। इन्द्रदर्पहरणेन व्रजस्य पालनमात्रम्। मम तु सर्वतः परमं सर्वं कृतम्, तेन महन्मम भाग्यमिति। अथवा मुनीन्द्राणां मानसतापमेव हरति, गोपीनां वसनमेव, इंद्रादीनां दर्पमेव, न तु मनो हृतवान्। अस्माकन्तु मनो हरतीति महान्विशेष उक्तः।।82।।
सुबोधनी
ततोऽतिहर्षेण सनर्माह- स एवायं को यो मदीयानां हृदयाम्बुरुहापहारी। श्लाघ्य एवायम्। कथमेवं ब्रूषे – हर्षयुक्तानां व्रजकुमारीणां वसनापहारी यः सोऽयम्। तेन नर्मणा तत्कृते को दोषः। इन्द्रस्यापि गिरिधृत्या गर्वहारी। स्वद्वेषिणि तदपि वीरस्य न गर्ह्यम्। मुनिजनानां मानसे यस्तापस्तस्यापहारी। प्रसिद्धचौरेऽस्मिन्न संदेह।।82।।
|