- कान्ताकुचग्रहणविग्रहलब्धलक्ष्मी
- खण्डांगरागनवरञ्जितमञ्जुलश्रीः।
- गण्डस्थलीमुकुर-मण्डलखेलमान –
- धर्मांकुरः किमपि गुम्फति कृष्णदेवः।।91।।[1]
अन्वयः – कान्ताकुचग्रहणविग्रहलब्धलक्ष्मी- खण्डांगरागनवरञ्जितमञ्जुलश्रीः (कान्तायाः श्रीराधायाः कुचग्रहणे यः कलहो हस्ताहस्ति तेन या लक्ष्मीः शोभा तया युक्ताः खण्डाः विच्छिन्नाः अंगरागाः तेषः नवैः रञ्जिताः ततः एव मञ्जुला श्रीः यस्य) कृष्णदेवः गण्डस्थलीमुकुरमण्डलखेलमान- घर्मांकुरः किमपि गुम्फति।।91।।
अनुवाद- कान्ता के कुचग्रहणादि समय से प्रणयकलहवश श्रीकृष्णदेव का अंगराग खण्डित हो गया है। कान्ता के अंगराग से रञ्जित होकर, नूतन शोभा से शोभित होकर वे अपने दर्पण- जैसे गण्डस्थलों पर धर्मबिन्दु प्रकट कर क्या एक अपूर्व माला गूँथ रहे हैं ?।।91।।
कृष्णवल्लभा
सम्प्रति राधया सह संगत्य विहरन्तं श्रीकृष्णं वर्णयन्नाह- कान्तेति। दीव्यति क्रीडति मोदते वा देवः। कृष्णश्चासौ देवश्चेति। किमपि गुम्फति, अर्थात् त्रुटितान्वेणीहाररशनादिकान् ग्रथ्नातीत्यर्थः। क्रीडारसाविष्टतया सम्यग् गुम्फनात् किमपीत्युक्तम्। कीदृशो देवः- कान्ता कुचग्रहणविग्रहलब्धलक्ष्मीः। कान्ताया राधायाः कुचग्रहणे केशप्रसाधने यो विग्रहो रतिकलहो नखदन्तक्षतादिरूपस्तेन लब्धा लक्ष्मीः शोभा येन सः। पुनः कीदृशः- खण्डांगरागलवरञ्जितमञ्जुलश्री। रतिकलहेन खण्डो योंऽगरागस्तस्य लवेन रञ्जिता, अतएव मञ्जुला श्रीर्यस्य सः। पुनः कीदृशः गण्डस्थली- मुकुरमण्डलखेल- मानघर्मांकुरः। गण्डस्थल्येव मुकुरमण्डलम्, तत्र खेलमाना घर्मांकुरा यस्य सः। श्रीराधायाः केश प्रसाधन समये केनचित् सुखविशेषेण रतिकलहनिर्वृत्त- हारादीनां त्रुटिः, स्वस्य परिश्रमात् स्वेदजलकणा अपि जातास्तेनांग- रागोऽपि खण्डीभूतः, पश्चात्तस्या हारोऽपि ग्रथित इति समुदायार्थः।।91।।
सुबोधनी
पुनस्तद्वपुषोऽद्भुतभूषणं व्यञ्जयंस्तथैवाह- कृष्णदेवः किमपि कान्तिवेषमालां ग्रथ्नाति। तद्वक्तुं न शक्नोमीत्यर्थः। तदभिनयन्नाह- कान्तायाः श्रीराधायाः कुचग्रहणाय यः प्रणयकलहो हस्ताहस्ति तेन लब्धा या लक्ष्मीरुन्मुक्तकेशादिशोभा तया युक्ताः खण्डा विच्छिन्ना येंऽगंरागास्तेषां लवैरञ्जितातैव मञ्जुला श्रीर्यस्य। तल्लक्षयति- गण्डस्थल्यौ स्वच्छतया मुकुरमण्डले ये तयोः खेलमाना धर्मांकुरा यस्य।।91।।
|