बहल- जलदच्छाया – चौरं विलासभरालसं
- मदशिखि-शिखा- लीलोत्तंसं मनोज्ञ- मुखाम्बुजम्।
- कमपि कमलापागोंदग्र- प्रसंगजडं जग-
- न्मधुरिम- परिपाकोद्रेकं वयं मृगयामहे।।47।।[1]
अन्वयः – बहलजलदच्छायाचौरम् (निविडजलद- च्छायाचौरम्) विलासभरालसं मदशिखिशिखालीलो त्तंसं (मत्तानां शिखिनां या शिखा चूड़ा तस्याः या लीला तद्वदुत्तंसः यस्य तम्) मनोज्ञमुखाम्बुजं, कमलापांगोदग्र-प्रसंगजडम् (कमलायाः श्रीराधायाः अपांगस्य यः उच्चैः प्रसंगस्तेन जडम्) जगन्मधुरिम-परिपाकोद्रेकम् (जगति मधुरिम्नां यः परिपाकः परिणतिः तस्याद्रोकः आधिक्यं यत्र तम्) कमपि वयं मृगयामहे।।47।।
अनुवाद- जिनकी अंग- कान्ति ने निविड़ जलद की कान्ति को हर लिया है, जो विलास श्रम के कारण अलस हैं, मदमत्त मयूरपुच्छ जिनका शिरोभूषण है, जिनकी मुखकमल अति मनोज्ञ है, कमला की अपांगदृष्टि (कटाक्ष) से जो जडवत् स्तम्भित हैं, अखिल विश्व की मधुरिमा का परिपाकस्वरूप जिनका माधुर्य है- ऐसी किसी वस्तु का हम लोग अन्वेषण कर रहे हैं।।47।।
कृष्णवल्लभा
नयनं तावत् पुनरोवर्तिनमेव मृगयितुं शक्नोति, हा हन्त किं कुर्म इत्याह- बहलेति। वयं कमप्यद्भुतं जगन्मधुरिमपरिपाकोद्रेकम्। जगत्सु यो मधुरिमा तस्य परिपाको वृद्धिस्तस्योद्रेकः परमपूर्णतमाधुर्य- मित्यर्थः। मृगयामहे केनोपायेन पश्याम इति विचारयामहे। तद्विदस्तु केवलं बावाभ्यासमेवोपायमुप- दिशन्ति, स त्वत्यन्तदुर्घट इति भावः। कीदृशम्- बहलजलदच्छाया चौरम्। बहलजलदः सान्द्रमेघ- श्छायाचौरश्छाया कान्तिस्तस्याश्चौरो यस्य तम्। तद्वपुः प्रतिबिम्बकान्ति चोरयित्वा मुधा गर्जतीत्यर्थः। यद्वा, छायायां प्रतिबिम्बे यद्दृश्यते श्यामिकाभासादि तत्र किञ्चिद्धर्तुं चौरवद्भवति। न तु तत्रापि किमपि प्राप्नोति, प्रत्युत धिक्करणीय एव। विलासभरालसम् विलासभरेणालसम्। मदशिखिशिखाली- लोत्तंसम्- मदानां मत्तानां शिखिनां या शिखा चूड़ा तस्या या लीला तद्वत्तंसो नानापुष्पगुम्पित-शिरोभूषणं यस्य तम्। मनोज्ञमुखाम्बुजम्- मनोज्ञं परमाश्चर्य- मनोहरं मुखाम्बुजं यत्र तम्। कमलापांगोदग्रसप्रसंग – जडम्- कं कृष्णप्रेमसुखं तेनालाति प्राप्नोति। भूषद्यर्थो वा बोध्यः। कमला श्रीराधा तस्या अपांगो नेत्रान्तस्तस्योदग्रमुत्कृष्टाग्रभागस्तस्य प्रकृष्टसंगेन जडम्। सल्जस्मितमुख-भंगीविशेष पूर्वकावलो- कनस्तम्भ- सात्त्विक- भावलक्षितमित्यर्थः।।47।।
|