अमून्यधन्यानिदिनान्तराणि
- हरे त्वदालो कनमन्तरेण।
- अनाथबन्धोकरुणैकसिन्धो
- हा हन्त हा हन्त कथं नयामि।।41।।[1]
अन्वयः हे अनाथबन्धो ! हे करुणैकसिन्धो ! त्वदालोकनमन्तरेण (त्वदालोकनं बिना) अमूनि अधन्यानि दिनान्तराणि (दिवसानाम – न्तराणि दिनमध्यानि रात्रीः च) हा हन्त ! हा हन्त ! कथं (केनावलम्बनेन) नयामि (गमयामि)।।41।।
अनुवाद- हे अनाथबन्धो ! हे करुणा के एकमात्र सिन्धु ! तुम्हारे दर्शन के बिना ये अधन्य वृथा दिनरात्रसमूह हाय ! हाय ! कैसे बिताऊँ ?।।41।।
कृष्णवल्लभा
प्रारब्धक्षय- विलम्बमप्यसहमानः श्रीकृष्ण- दर्शनोत्कण्ठार्तिभरेण कातरस्तं प्रत्याह- अमूनीति। हे हरे दुःखहरणशील, त्वमेवास्मद्दुः खहर्तेति भावः। त्वदालोकनं त्वद्दर्शनमन्तरेण बिनामून्या- गामीनि दिनान्तराणि दिनमध्यानि कथं केनावलम्बनेन हा हन्त हा हन्तेति खेदे वीप्सा नयामि गमयामि। यतोऽधन्यान्यभद्राणि। अतिदुःखप्रदत्वात्। पूर्वाणि तु कथञ्चिद्धयान- रसेन गमितानि। प्रतिपदमुत्कण्ठाया अतिवर्द्धमानत्वात्- “त्रुटिर्युगायते” इत्यादिवत्- क्षणमपि दिनान्तरवत्- प्रतिभाति। आयास्यन्त्यन्यान्येव महाघोराणि दिनानि तु कथं गमयितुं शक्यन्त इति भावः। अतिदुःखितवदाह- हे अनाथबन्धो, मद्विधानन्यनाथस्य त्वमेव बन्धुः। मद्विधेऽनन्यनिवर्तनीयदुःखे त्वमेव पूर्णकर्ता नान्य इत्यर्थः। हे करुणैकसिन्धो कृपासमुद्र अतः प्रारब्धक्षयविलम्बं परिहृत्य दर्शनं देहीति भावः। अथवैवं योजना- हे अनाथबन्धो। त्वदित्यव्ययम्। त्वद्गतेनान्तरेणान्तरात्मना। आलोकनम् आ समन्तात् त्वदन्यदृष्टिमात्र- दर्शनं हे हरे दूरीकरोमि। किन्तु हे करुणैकसिन्धो अमून्यधन्यानि दिनान्तराणि कथं नयामि नेष्ये। वर्तमानसामीप्ये वर्तमानवद्वेति लट्।।41।।
|