- श्रृंगाररसर्वस्वं शिखिपिच्छविभूषणम्।
- अंगीकृतनराकारमाश्रये भुवनाश्रयम्।।93।।[1]
अन्वयः– श्रृंगाररसर्वस्वं शिखिपिच्छविभूषणम् अंगीकृतनराकारं भुवनाश्रयम् आश्रये।।93।।
अनुवाद- रस ही जिनकी सर्वस्वसम्पदा है, शिखिपुच्छ ही जिनका विशेष भूषण है, नराकार को जिन्होंने अंगीकार किया है- उन्हीं भुवनाश्रय श्रीकृष्ण का मैं आश्रय लेता हूँ।।93।।
कृष्णवल्लभा
सम्प्रति श्रीकृष्णस्वरूपं परमाश्रयतमं कथयन् स्वाश्रयणीयत्वमेवाह- श्रृंगारेति। भुवनाश्रय- माश्रये भुवनानां तद्वर्तिनां चाश्रयमाधारं श्रीकृष्णमाश्रये। आ सम्यक श्रये, सेवे। किं भुवनाश्रयत्वेन तदाश्रयणं प्रार्थ्यते, नेत्याह, कीदृशम्- श्रृंगाररसर्वस्वम्। श्रृंगाररसस्य सर्वस्वं यस्मिंस्तत्। अनेनैव वयोवर्णादिमाधुरीविशेषश्च सूचितः। पुनः कीदृशम्- शिखिपिच्छविभूषणम्। शिखिपिञ्छरूपं विशिष्टं गोपत्वव्यंञ्जकं भुषणमसाधारणं यस्य तम्। तस्य स्वतोभूषण- रूपस्य हारनूपुरादिना भूषणं न सम्भवति। तथापि मयूराश्च परममहामेघबुद्धया प्रेम्नातिप्रमोदा नृत्यन्ति, तदा पतन्ति पिच्छानि भूषणतां प्राप्नुवन्त्येवेति भावः। पुनः कीदृशम्- अंगीकृतनराकारम्। सर्वाभिः परममहाशक्तिभिः संसेव्यमानोऽप्यंगीकृतः स्वीकृतो नरस्येवातिपरममहावैद्ध्य्वानाकारो येन। ‘नराकृति परंब्रह्मा’[2] इति स्मरणात्।।93।।
सुबोधनी
इदानीं तथाभूतस्य सर्वोत्तमां निश्चित्य तमाश्रयन्नाह- श्रृंगाररसः सर्वस्वं यस्य तमाश्रये। कीदृशम् शिखिपिञ्छविभूषणम्। तेनैव तद्वैशिष्ट्यमाह- अंगीकृतः स्वरूपेण गृहीतो नराकारो येन। अतएव भुवनानां प्राकृताप्राकृतानामाश्रयभूतो यः।।93।।
|