पुनः प्रसन्नेन्दु – मुखेन तेजसा
- पुरोऽवतीर्णस्य कृपामहाम्बुधेः।
- तदेव लीलामुरलीरवामृतं
- समाधि – विघ्नाय कदा नु मे भवेत्।।34।।[1]
अन्वयः प्रसन्नेन्दुमुखेन तेजसा (प्रसन्नेन्दु मुखेन हेतुना यत्तेज- उच्छलनं तेन) पुरोऽवती- र्णस्य कृपामहाम्बुधेः तदेव लीलामुरलीरवामृतं कदा नु मे समाधिविघ्नाय भवेत् ?।।34।।
अनुवाद- प्रसन्नचंद्र की तरह दीप्त आनन से मेरे आगे पुनः अवतीर्ण कृपा के महासागर श्रीकृष्ण उसी लीलामुरलीरवामृत द्वारा मेरी समाधि में विघ्न कब उत्पन्न करेंगे?।।34।।
कृष्णवल्लभा
व्रजसुन्दरीभिः सहजल्पितानीति यदुक्तानि तानि तु तथाविधान्येव। किन्तु तानि यदि मुरलीनादार्पितानि भवन्ति तदतीव मनोहराणि स्युरिति पूर्वानुभवपरमानन्द- साम्राज्यभर- स्तादृश- समाधिनैवायुष्कालो म यायात्। यदि च ततो व्युत्थानं भवेत् तर्ह्येवं भूयादि- त्याशास्ते- पुनरिति। कृपा महाम्बुधेस्तव करुणासमुद्रस्य तदेव तात्कालीनमेव पूर्वानु-भूतं वा पुनः पुनरपि। न्विति वितर्के। समाधेरन्तः करणलयस्य विघ्नाय कदा भवेद्भविष्यति। ततत्किम्, लीलामुरलीरवामृतम्। लीलानिमित्तं लीलाप्रधानं वा यन्मुरलीरव एवामृतं सर्वाल्हादकत्वात्। तव कीदृशस्य- प्रसन्नेन्दुमुखेन। पुरोऽवतीर्णस्य तेजसा प्रसन्नं किष्कलंकमिन्दुवन्मुखं यत्र तादृशेन तेजसा परमामृतमयते- जोवितानपूर्णदिशा वपुषेत्यर्थः। पुरोऽग्रतोऽवतीर्णस्य साक्षात्प्रकट-परमानन्दरूपेण स्थितस्य। एतेनातिसदयत्वं सर्वतापनिवारकत्वञ्च ध्वनितम्।।34।।
सुबोधनी
अतएवोत्कण्ठयार्तस्तत्स्फूर्ति प्रार्थयते- प्रसन्नेन्दुमुखेन हेतुना यत्तेज उच्छलनं तेन। पुनः पुरोऽवतीर्णस्य कृपामहाम्बुधेस्तदेव प्राकृप्रार्थितं लीलायां यन्मुरलीरवामृतं तन्मम सम्यागाधे-स्तदप्राप्तिज-मनोव्यथाया अन्ताय। नु वितर्के। कदा भवेत्।।34।।
|