- मधुरमधरबिम्बे मञ्जुलं मन्दहास्ये
- शिशिरममृतनादे शीतलं दृष्टिपाते।
- विपुलमरुणनेत्रे विश्रुतं वेणुनादे
- मरकत – मणिनीलं बालमालोकये नु।।64।।[1]
अन्वयः – अधरबिम्बे मधुरं मन्दहास्ये मञ्जुलम् (सुन्दरम्) अमृतनादे (वचसि) शिशिरं दृष्टिपाते शीतलम्, अरुणनेत्रे विपुलं वेणुनादे विश्रुतम् (प्रसिद्धम्) मरकतमणिलीं बालम् (किशोरम्) कदा नु आलोकये ?।।64।।
अनुवाद- जो अधरबिम्ब में मधुर, मन्दहास्य में मञ्जुल, अमृतनाद में स्निग्ध, दृष्टिपात में शीतल, अरुण नेत्रों में विपुल और वेणुनाद में विख्यात् हैं- उन्हीं मरकतमणिनील किशोर को मैं कब देखूँगी ?।।64।।
कृष्णवल्लभा
अथ परमभावेन श्रीकृष्णं भावयन् पुरतः स्फुर – माणमभिलषतिमधुरमिति। मरकतमणिनीलं मरकतमणिमिव श्यामं बालं सुकुमारम् अन्वनुवृत्ति- पूर्वकम्, अनुक्षणं वा, आलोकये पश्यामि। कीदृशम्- अधरबिम्बे मधुरं मधुर-रसरूपम्। पुनः कीदृशम्- मन्दहास्ये ईषद्धास्ये मञ्जुलमं मनोहरम्। पुनः कीदृशम्-अमृतनादे अमृतवच्छ्रवणपेये नादे शिशिरं हिमकणनिकर- वत्तापज्वालाशमनम्। पुनः कीदृशम्- दृष्टिपाते दृष्टीनां- दृष्टिभेदानां पाते पातने शीतलं भावितापशंकाया अपि नाशकम्। शिशिर- शीतलयोरयं भेदः शिशिरं मृद्वाश्रयम् यदवस्था हिमकणाः। नादस्य स्तोकत्वात् स्निग्धत्वाच्च तथात्वम्। शीतलं कठिनाश्रयमपि भवति। तेन दृष्टिपातस्य कठिनत्वात् कठिनमपि श्लथयति मर्म स्पृशतीति च। शीतलत्वा – दाप्यायकत्वञ्चेति। पुनः कीदृशम्- अरुणनेत्रे। अरुणञ्च तन्नेत्रञ्च तस्मिन्। जातावेकवचनम्। विपुलं विस्तीर्णम्। तथा, वेणोर्वादे वादने विश्रुतं ख्यातम्, वांशिकः, कोऽपि नैतादृश इति।।64।।
सुबोधनी
पुनः स्फूर्त्याह- नु निश्चये, मरकतनीलं बालं पश्यामि। तत्सम्भावयन्नाह- अधरबिम्बे मधुरम्। तत्कुतः- मन्दहास्ये मञ्जुलम्। तदपि कथम् अमृतनादे वचसि शिशिरम्। तत्रापि हेतुः- दृष्टिपाते च शीतलम्। तत्कथम्- अरुणनेत्रे विपुलम्। वेणुनादे प्रसिद्धम्।।64।।
|