- अखिलभुवनैकभुषणमधि-
- भूषित जलधि दुहितृ कुचकुम्भम्।
- व्रजयुवतीहारवल्लीमरकत –
- नायकमहामणिं वन्दे।।90।।[1]
अन्वयः – अखिलभुवनैकभूषणम् अधिभुषित-जलधिदुहितृ- कुचकुम्भं व्रजयुवतीहारवल्ली-मरकतनायक महामणिं (श्रीकृष्णं) वन्दे।।90।।
अनुवाद- अखिल भुवन के एकमात्र भूषण, जलधिदुहिता कमला के कुचकुम्भो के भूषण, व्रजयुवतियों के कण्ठहार की मरकतमहामणि श्रीकृष्ण की मैं वन्दना करता हूँ।।90।।
कृष्णवल्लभा
सम्प्रति राधारतिविहार- प्रसक्ते श्रीकृष्णस्वरूपे स्वसंनिष्ठामाह- अखिलेति। तं वंदे स्तौमि नमामि च। कीदृशम्- अखिलभुवनस्यैकमैव भूषणमलं-कृतिर्यस्मात्तम्। अखिलभुवनेषु परमानन्दरसमयपर्यन्तेष्वेकं मुख्यं श्रीवृन्दावनं तस्य भुषणमेव स्वरूपं यस्य वा तम्। पुनः कीदृशम्- अधिभुषित- जलधिदुहितृ- कुचकुम्भम्। अध्यधिकं भुषितौ कस्तूरीमकरी-विचनादिना। जलधिरिव जलधिः श्रीकृष्णैकान्तिकस्नेह- समुद्रः श्रीवृषभानुनामा गोपस्तस्य दुहिता श्रीराधा तस्याः कुचकुम्भौ भूषितौ येन तम्। पुनः कीदृशम्- व्रजयुवतिहारवल्ली- मरकतनायक महामणिम्। व्रजयुवतीनां हारवल्ली हारलता तस्यां मरकतमयं नायकं मध्यगतं महामणिम्। महामणिरिव मणिस्तम्। तासामुरसि निरन्तरं तिष्ठन्नपि राधया सह विहरतीति भावः।।90।।
सुबोधनी
पुनस्तद्वपुर्जगदानन्दकतयानुभवैः सनर्म नमन्नाह- तदखिलभुवनानां मुख्यं भूषणं वन्दे। कुत तद् अधिकं भूषतौ जलधिदुहितुः, जलमाधीयते स्वकिरणैराकृष्य संचीयत इति जलधिर्भानुस्तन्नाम्नो गोपस्य दुहितुः श्रीराधायाः कुचकुम्भौ येन। अतो व्रजयुवतीनां तत्सखीनां हारवल्या मरकत महानायकमणिं तद्वत्तद्धदयोल्लासकम्।।90।।
|