श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः – मुरारेः बहलचिकुरभारम् (निविडः चिकुरभारः यत्र तम्) बद्धपिच्छावतंसम् (बद्धः पिच्छानाम् अवतंसः यस्मिन् तम्) चपल-चपल- नेत्रं (अति चपले नेत्रे यत्र तम्) चारुबिम्बाधरोष्ठं (मनोहरं बिम्बप्रायमधरोष्ठं यस्य तम्) मधुरमृदुलहासम् (मधुरः मृदुलञ्च हासः यत्र तम्) मन्दरोदारलीलम् (मन्दरार्द्रेरिवोदारा लीला यत्र तम्) मुग्धवेशं मे नयनं मृगयति (अन्वेषयति)।।46।। अनुवाद- जिनका निविड़ कुन्तलभार चूड़े के रूप में बद्ध है, जिनका शिरोभूषण शिखिपुच्छ से सुशोभित है, अति चपल नेत्र हैं, बिम्बफल की तरह चारू अधरोष्ठ हैं, मृदुमधुर हास्य है, मन्दराचल की तरह उदार जिनका लीलाविलास मेरे नेत्र खोजते फिर रहे हैं।।46।। कृष्णवल्लभा प्रतिपद चापल्यवृद्धेः। चारुबिम्बाधरोष्ठम्- स्वभावत एव चारु मनोहरं बिम्बप्रायमधरोष्ठं यस्य तम्। मधुरमृदुलहासम्- मधुरो माधुर्यरसप्रदो मृदुं लात्यादत्त इत्येतादृशो हासो हास्यं यस्य तम्। एतेन स्मितहासो ध्वनितः तल्लक्षणञ्चोक्तं पूर्वमेव। मन्दरोदारलीलम्- मन्दरः कल्पतरुस्तत्प्राया। मन्दरा बहला वा। नानाविधोदारा बहुरसप्रदा लीला यस्य तम्। मन्दरा मन्दरपर्वतप्रायोदारा महतीलीला यस्येति वा। यथामृतोत्पादनाय सर्वैर्मिलत्वा मन्दरानयनप्रयत्नः कृतस्तथा श्रीविग्रहदर्शनान्दामृत- प्राप्त्यर्थं मन्दरीलाल निरूपणामित्यर्थः। मन्दरस्तु पुमान्मन्थशैले मन्दरपादपे वाच्यवद्वहले मन्दे। इति विश्वः।।46।। |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज