- अव्याज-मञ्जुल-मुखाम्बुज- मुग्धभावै-
- रास्वाद्यमान- निजवेणु- विनोदनादम्।
- आक्रीडता- मरुणपादसरोरुहाभ्या-
- मार्द्रेमदीयहृदये भुवनार्द्रमोजः।।15।।[1]
अन्वयः– अव्याजमञ्जुलमुखाम्बुजमुग्धभावैः (सहजसुन्दरं यन्मुखाम्बुजं तस्य ये मुग्धा मनोहरबावप्रकाशनरूपाः कटाक्षादयस्तैः) आस्वाद्यमान निजवेणुविनोदनादम् (आस्वाद्यमानो निजोऽसाधारणो वेणोर्विनोदनादो येन तत्) भुवनार्द्रम् (भुवनमपि आद्रयितुं समर्थम्) ओजः (पूर्ववद् आनन्दसंप्लवम्) आर्द्रे मदीयहृदये अरुणपादसरोरुहाभ्याम् आक्रीडताम् (सम्यक् क्रीडताम्)।।15।।
अनुवाद- जो स्वाभाविक रूप से सुन्दर मुखपद्मकेमनोहर भाव द्वारा अपने वेणुका विनादनाद आस्वादन कर अपने ही भाव में विभोर है, वह भुवन को आर्द्र करने वाली आनन्दसंप्लव मधुरमूर्ति अपने अरुण चरणकमलों से मेरे आर्द्र हृदय में क्रीड़ा करे।।15।।
कृष्णवल्लभा
अथ श्रीकृष्णस्य वृन्दावनगिरिकन्दरकालिन्दी- तटव्रजवीथ्यादिषु सप्रेमचरणसञ्चारेण विरचित-विचित्र मधुरक्रीडस्य चरणस्फूर्ति हृदि प्रार्थयते- अव्याजेति। ओजः किमपि तेजोरूपं वस्तुवलावष्टम्भयोरोजः क्लीवं दीप्तिप्रकाशयोरिति। मदीयहृदये अरुणपादसरोरुहाभ्याम्। अरुणे ये पादसरोरुहे ताभ्यां करणभूताभ्यामा-क्रीडताम्। क्रीड विहारे धातुः। (धा. 1/373)। नृत्यत्वित्यर्थः। क्रीड आङ् परिभ्याम् (पा. 1/3/20-21) इत्यात्मनेपदम्। ननु कथं कठिने हृदये ताम्यां सुकुमाराभ्यां क्रीडनं तत्राह- आर्द्रे तत्प्रेमरसेन स्निग्धीभूते। किम्भूतमोजः- भुवनार्द्रम्। भुवनमेवार्द्रं येन। तत्सम्पर्काद्भुवन-मार्द्रीभवति, मद्धृदयस्य का गणना। यत् प्रेमार्द्रतालवेन भुवनेषु महाप्रेमार्द्रता, तस्य साक्षात् प्रेमार्द्रता का वक्तव्या। यद्वा, भुवनं जलं तद्वदार्द्रमिति। जलयोगात् कठिनं लोष्ट्राद्यीर्द्रीभवति। पुनः किम्भूतम् अव्याज- मञ्जुल-मुखाम्बुजमुग्धभावैरास्वादमाननिजवेणु- विनोदनादम्। अव्याजा निष्कपटाः सहजानुरागविलसिता मञ्जुले मनोहरे मुखाम्बुजे मुग्धाः सुन्दरा ये भावा हास्यकटाक्षभ्रूबिभंग्यादयस्तैः सहेति वा। आस्वाद्यमाना मधुरान्मधुरतरोऽयमित्यनुभूयमाना। निजवेणोः संकेतपरिहासनर्मादिशंसिनो ये विनोदाः स्मरगाममूर्छनास्तानादिरूपा वा तद्युक्तो नादो येन तत्। अथवैवं योजना- अरुणपाद- सरोरुहाभ्यामुपलक्षितमोजो मदीयहृदये आक्रीडताम्। कथं कठिने हृदये तस्याक्रीडः, अत आह- तद्भावैरार्द्रे। किम्भूतमोजः - आस्वाद्यमानोऽर्थाद्रोपीभिर्निज- वेणोर्विनोद- युक्तो नादो यस्य। अन्यत् पूर्ववत्।।15।।
|