- तत्त्वन्मुखं कथमिवाम्बुजतुल्यकक्षं
- वाचामवाचि ननु पर्वणि पर्वणीन्दोः।
- तत् किं ब्रुवे किमपरं भुवनैककान्त-
- वेणु त्वदाननमनेन समं नु यत् स्यात्।।97।।[1]
अन्वयः – तत् त्वन्मुखम् अम्बुजतुल्यकक्षं कथमिव? ननु इन्दोः पर्वणि पर्वणि (यद् भवति तत्) वाचां अवाचि। भुवनैककान्तवेणु (यत्र) त्वदाननं यदनेन समं नु स्यात् (तत्) अपरं किं ब्रुवे ?।।97।।
अनुवाद- तुम्हारे मुख की तुलना अम्बुज के साथ कैसे करूँ? और चंद्रमा पर्वपर्व में ह्रासप्राप्त होकर जिस दशा को प्राप्त करता है, उसका तो कहना ही नहीं। भुवन की एकमात्र कमनीय वस्तु- वेणुवादनशील तुम्हारे मुख के साथ किसकी तुलना करूँ।।97।।
कृष्णवल्लभा
सम्प्रत्याश्चर्यरूपेण स्फुरच्छ्रीकृष्णमुखं पुनर्वर्णयति- तत्त्वन्मुखमिति। ननु विभो श्रीकृष्ण तत्त्वन्मुखं कथमिवाम्बुजतुल्यकक्षं पद्मसदृशम्। नित्यप्रफुल्लत्वात्। तर्हि चंद्रसमं भवतु, नहि नहि इन्दोर्यत्पर्वणि पर्वणि। सौभाग्यमिति शेष। न तु सर्वदा। तच्च वाचामवाचि वाचामधः। अवाञ्चनमवाक् सम्पदादित्वात्।[2] क्विप्। वक्तुं शक्यमिदन्तु न तथा। तस्य पर्वणि पर्वण्येव पूर्णता, इदन्तु सदा पूर्णम्। यद्वा, मुखं विशिनष्टि- पर्वण पर्वणीन्दोर्वाचा- मिन्दुप्रतिपादक – वचसामवाचि। वाचयितु शीलमस्य वाचि, न वाच्यवाचि। इन्दुर्नाम कश्चितदस्तीति शब्दमपि कोऽपि न प्रयुङ्क्त इत्यर्थः। अथवा, इन्दोः पर्वणि पर्वण्य- मावस्यायामवास्यां यद्यदवाचि। अवाचयितुं शीलमस्य तत्। तत्तस्मात् किं ब्रवे कथयामि। न किमपि व्रुयां यदन्यदेतत् सदृशमिति भावः। नन्वपरं मन्मुख-मेवैतन्मुखतुल्यं स्यादिति चेदत आह- अपरं त्वदाननं किं भुवनैककान्तवेणु। भुवनेष्वेकः सुखसीमा वेणुर्यत्र तत्। यदपरं त्वदाननमनेन त्वमन्मुखेन समं नु स्यात्। एवं योज्यं वा- यत्त्बन्मुखं भुवनैककान्तवेणु तादृश्मनेन सममपरं त्वदाननं कि स्यात्। न स्वादेवेति। वेणुयुतं श्रीमुखं श्रीवृंदावनगोचरस्य भवत एव। नापरस्य तवावतारस्येति भावः।।97।।
|