|
|
सुबोधनी
अतस्तवेदं मुखं निरुपममित्याह- ननु वितर्के तत्तथाभुतं त्वन्मुखम्बुजं तुल्यकक्षायां यस्य तादृशं कथं स्यात्। तत्राम्बुजे दोषं वदंश्चंद्र दूषयति- दर्शे दर्शे इन्दोर्यद्भवति तद्वाचामप्यवाचि, वाचापि न वाच्यम्। क्षयशब्दस्यामंगल्याद् वचनायोग्यमित्यर्थः। यदीन्दो रीदृगवस्था तदा त्वद्पादतिरस्कृताब्जस्य कथं तदास्यतुल्यत्वमित्यर्थः। क्षणं विमृश्य, अपरं तवैवापरस्वरूपाणां वा मुखं ब्रूषे- नु भो इदं त्वदाननमनेन तदाननेन सम किं कथं ब्रुवे। तदपि समं वक्तुं न शक्नोमीत्यर्थः। तत्र हेतुः यद्स्मात्त्वदाननं भुवनानामनन्त वैकुण्ठादिलोकानाम्। तन्नाथानामित्यर्थः। एकः कान्तः केवलं द्रष्टुमाकांक्षितो वेणुर्यत्र तादृशम्।।97।।
सारंगरंगदा
नन्वये त्वं बालोऽसि “एको हि दोषी गुणसन्निपाते, निमज्जतीन्दोः किरणेष्विवांकः।” इति[1]तत्साम्येन वा पद्मसाम्येन वा मन्मुकं किं न वर्णयसीति तेन सह विवदमानो भंग्याह- तन्निरूपममेत त्त्वन्नमुखमम्बुजं तुल्यकक्षायां यस्य तादृशं कथं भवेत्। ननु किमत्र दूषणमित्यत्र चंद्रे दोषांतरं वदन्पद्ममप्यतितरां दूषयति- पर्वणि पर्वणि दर्शे दर्दा इन्दोर्यद्भवति तद्वाचामवाच्यधः। संक्षयस्यामंगल्याद्वाग्विषयेऽपि कर्तुं न योग्यमित्यर्थः। यदीन्दोरप्यमेवं तदा तत् पदाघातैस्तिरस्कृतस्य पद्मस्य कथं त्वन्मुखसाम्यमिति भावः। ननु न भवतु तत्साम्यम्, वर्ण्यं चेत्तर्हि केनाप्यपरेण मुखेन्दुना समतया वर्णयेति, क्षणं विमृश्य, आं अपरं तवैव व्रजविलासि-स्वरूपाद-परस्वरूपाणां मुखं किं देवेनोच्यते- नु भोः स्वामिन्, इदं त्वदाननमनेन तत्तदाननेन समं यत् स्यात्तत् किं ब्रुवे कथमेतत् कथयामि। तत्तु मया वक्तुं न शक्यत इत्यर्थः। ननु किं विक्षिप्तोऽसि, तदेतन्मुखमेकमेव, कस्तावदसाम्ये हेतुरिति, बहून् हेतून् हृदि विभाव्यैकमेव सकरमार्जनं नीचैराह- इदं त्वदाननं भुवनैककान्तो वेणुर्यत्र तादृशम्। एतदपूर्वामृतं तेषु नास्ति, मया किं कर्तव्यमित्यर्थः। यद्वा तत्तस्मादनेनाब्जे- नेन्दुना च त्वन्मुखं समं यत् स्यात्तदहं किं ब्रुवे कथं ब्रवीमि। किमपरं श्रीमुखादि त्वयोच्यते, अनेनापि समं यत् स्यात्तदहं कथं ब्रुवे, यदिदं भुवनैककान्तवेणु। अपरशब्द – स्यान्यद्यत्किञ्चिदर्थे कृते भुवनेति विशेषणस्य वैयर्थ्यंस्यात्।
- दर्शे दर्शे क्षयी चन्द्रस्तेनाप्यर्दितमम्बुजम्।
- निर्वेणून्यपरास्यानि केन तुल्यं त्वदाननम्।।97।।
|
|