हे देव हे दयति हे भुवनैकबन्धो
- हे कृष्ण हे चपल हे करुणैकसिन्धो।
- हे नाथ हे रमण हे नयनाभिराम
- हा हा कदा नु भवितासि पदं दृशोर्मे।।40।।[1]
अन्वयः – हे देव ! हे दयति ! हे भुवनैकबन्धो ! हे कृष्ण ! हे चपल ! हे करुणैकसिन्धो ! हे नाथ ! हे रमण ! हे नयनाभिराम ! हा हा कदानु मे दृशः पदं भवितासि?।।40।।
अनुवाद- हे देव ! हे दयित (प्रियतम), भुवन के एकमात्र बन्धु ! हे कृष्ण, हे चपल, हे करुणा के एकमात्र सिन्धु ! हे नाथ, हे रमण, हे नयनाभिराम ! हाय ! हाय ! तुम मेरे नयन गोचर कब होंगे?।।40।।
कृष्णवल्लभा
हे कृपासमुद्र यद्यागतोऽसि तदा कथं मन्नेत्रयोः पात्रतां नायासीति दर्शनोत्कण्ठामाह- हे देवेति। हे देव दीव्यति क्रीडति मोदते विजिगीषति द्योत्यत इति निरन्तर क्रीडापरेत्यर्थः। मे मम। न्विति वितर्के। दृशोर्नेत्रयोः पदं स्थानं कदा भवितासि भविष्यसि। हा हेत्यतिप्रीत्या खेदे। यद्वा कदा मे दृशोः पदं चिह्नमनुभवितासि, स्वकेलिधारा- मधुररसाञ्चनं करिष्यसीत्यर्थः। अतिप्रीत्यावि- ष्कारमाह- हे दयति अतिप्रिय सञ्दजातदयेति वा। दया- शब्दादितच्। दया तावन्मम क्व दृष्टेत्यत आह- हे भुवनैकबन्धो ! भुवनेष्वेकोऽनन्यो बन्धुर्हितकारी सर्वबन्धुकृत्यं त्वय्येवास्तीति भावः। परस्परविसदृशानां भुवनजनानामतिदुर्घटमिदमत आह- हे कृष्ण ! कर्षत्याकर्षति सर्वानिति कृषेर्न औणादिकः। यद्वा, कृष्ण सच्चिदानन्द।
“कृषिर्भूवाचकः शब्दो नश्च निर्वृतिसंज्ञकः।
- तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते।।”[2]
हे चपल निरन्तरभक्तानुग्रहसाधन पर! तथा चोक्तं भारते[3]-
|