- करकमल – दल – कलित – ललिततर – वंशी –
- कलनिनद – गलदमृत – घनसरसि देवे।
- सहज – रसभर – भरित – दरहसित – वीथी –
- सतत – वहदधर – मणि – मधुरिमणि लीये।।52।।[1]
अन्वयः – करकमलदल-कलितललिततरवंशी- कलनिनदगलदमृतघनसरसि (करकमलयोः कोमलैः अंग्मुलिभिः वादिता या ललिततरा वंशी तस्याः कलनिनादाः एव गलदमृतानि तेषां सान्द्रसरोवरे) सहजरसभरभरित- दरहसितवीथी- सततवहदधर-मणिमधुरिमणि (सहजरसभरैः भरतिं यद् ईषत् हसितं तन्मार्गे तस्य वीथ्या धारया निरन्तर-वहदधरमणेः मधुरिमा यात्र तादृशे) देवे लीये (लीनः भवामि)।।52।।
अनुवाद – जिनके वदनकमल पर रखी वंशी का कलनिनाद मानो अमृत दवित होकर गहन सरोवर रह रहा है, सहज रसपरिपूर्ण मृदुहास्य से जिनके अधर रञ्जित और मधुर हैं- उन्हीं देव में मेरा चित्त लीन हो।।52।।
कृष्णवल्लभा
पुनरपि श्रीकृष्णचंद्रे सर्वात्मना चित्तलयमेवाध्यवस्यति – करलकमलेति। देवे लीये इति पूर्ववदन्वयः। कीदृशे देवे- करकमलदलकलित- ललिततरवंशीकल- निनदगलदमृतघनसरसि। कर एव कमलदलम्। यद्वा, कर एव कमलं तस्य दलानि पत्राण्यंकुलयस्तैः कलिता धृता ललिततराति-ललिता या वंशी तस्याः कलनिनदा एव गलदमृतानि। तेभ्यो गलन्त्यमृतानीति वा। तादृशे घनरसरसि निविडतडागे। तेषां घनं निविडं सर इव सरस्तस्मिन्निति वा। एतेन वंशीवादनसमयो व्यज्यते। अत्र श्रीकृष्णविग्रह-स्यामृत- सरोरूपता, करयोः कमलत्वम्, वंशीनिनादस्य मकरन्दामृतरूपत्वञ्च ध्वनितम्। पुनः कीदृशे- सहजरसभरभरित- दरहसित- वीथीसततवहदधरमणि- मधुरिमणि। सहजः स्वबावजो यो सो माधुर्य तस्य भरोऽतिशयस्तेन भरितं पुष्टं यद्दरहसितमीषद्धास्यं तस्य वीथी परंपरा तया निमित्तभूतया सततं निरन्तरं वहन प्रवाहरूपेण स्फूरन् योऽधरः स एव मणिरत्युज्ज्वलत्वात् पद्मरागस्तस्य मधुरिमा माधुरीविशेषो यस्मिन्। अयमभिप्रायः – पूर्वश्लोके रतिकलह- विजयेत्यादिना जिगीषुणैव स्थितम्। अत्र विजये जाते वंशी वादयित्वा स्थितम्। तत्र च पराजये सति व्रजयुवतीनां प्रेमकोपो जातस्तेन तस्य हास्यं जातमिति।।52।।
|