- विचित्रपत्रांकुरशालि बाला-
- स्तनान्तरं याम वनान्तरं वा।
- अपास्य वृन्दावन- पादलास्य –
- मुपास्यमन्यं न विलोकयामः।।22।।[1]
अन्वयः – विचित्र-पत्रांकुरशालि बालास्तनान्तरं यामः वनान्तरं वा (यामः), वृन्दावनपादलास्यम् अपास्य अन्यम् उपास्यं न विलोकयामः (वृन्दावने पादलास्यं यस्य तम् उपास्य हित्वा अन्यम् उपास्यं कञ्चिदपि न विलोकयामः, उपासनायाः का वार्ता इत्यर्थः)।।22।।
अनुवाद- जो विचित्र पत्रांकुरशाली (पत्रावलीयुक्त) गोपबाला के हृदय में विद्यमान हैं, उन्हें छोड़कर उन्हें खोजने कहाँ जाऊँगा? अथवा विचित्र पत्रांकुरशली अन्य किस् वन में जाऊँगा? वृन्दावन में जिनका पादलास्य (पद-विन्यास) विद्यमान है, उन्हें छोड़कर अन्य उपास्य नहीं देखता।।22।।
कृष्णवल्लभा
अथ श्रीवृन्दावन-मञ्जुकुञ्जविहारी – श्रीकृष्णमधुरोपासनोद्भूत-तत्तद्भावाविष्टः स्वस्य तदुपासनैकदार्ढ्यमाह- विचित्रेति। कृष्णेच्छया यदि बालास्तनान्तरम्। बालायः नायिकायाः।
‘वालेति गीयते नारी यावद्वर्षाणि षोड़श’ नइति कोकशस्त्रे (नागरसर्वस्वे 10/2) तस्याः स्तनयोरन्तरं मध्यं यामः गच्छामः। प्रवृत्तिमार्गनिष्णात- तत्तन्मीमां- सकादिदुर्दुरूढ- संगताः परमविषयान् भोजयामः। “अग्निष्टोमेनस्वर्गकामो यजेत” इत्यादिश्रुतेः। यद्वा, “तद् यथेह कर्मजितो लोकः क्षीयते, एवमेवामुत्र पुण्यजितो लोकः क्षीयते” इति श्रुत्या (छान्दोग्ये 8/1/16) इह परमसुखं प्राप्ताः सन्तो वनान्तरं वनस्यान्तरं मध्यं वा प्रविशामः। बालायाः स्तनान्तरं वनान्तरं वा कीदृशम्- विचित्रपत्रांकुरशालि। उभयोर्विशेषणम्। विविधानि विचित्राणि कस्तुरी-कुंकुमादिभिः कृतानि येषु तैरेवम्भूतैः पत्रांकुरैः पत्रावलीभिः शाला श्लाघास्यास्तीति। वनान्तरमपि विचित्रैः पत्रैरंकुरैरभिनवोद्भेदैः शालितुं शीलं यस्येति। “अंकुरोऽभिनवोद्भितीत्यमरः” (2/4/4)। तथा- श्रीवृन्दावन- पादलास्यं वृन्दावने पादलोर्यास्यं लसनं शोभाविशेषो यस्य तम्। यद्वा, लास्यं रासविलासिनानागति- विन्यासरूपं नृत्यं यस्य तम्। श्रीकृष्णमुपास्य त्यक्त्वान्यत् किमप्युपास्यमु-पासनार्हमाराध्यं वस्तु। यद्वा, उपास्यमास्य- समीपस्थमपि न विलोकयामो न पश्यामः। सर्वत्रैव हि तं विलाकयाम इति भावः। तत्र लास्यम्-
|