त्वच्छैशवं त्रिभुवनाद् भुतमित्यवैहि
- मच्चापलञ्च मम वा तव वाधिगम्यम्।
- तत् किं करोमि विरलं मुरलीविलासि
- मुग्धं मुखाम्बुजमुदीक्षितु- मीक्षणाभ्याम्।।32।।[1]
अन्वयः त्वत् शैशवं त्रिभुवनाद्भुतम् इति अवैहि (त्वमेव जानीहि), मच्चापलञ्च मम वा तव वा अधिगम्यम्। तत् (तस्मात्) हे मुरलीविलासि ! (तव) विरलं मुग्धं मुखाम्बुजम् ईक्ष्णाभ्याम् उदीक्षितुं किं करोमि (तत् त्वयैव उपदेश्यम् इत्यर्थः)।।32।।
अनुवाद- हे कृष्ण! तुम्हारा कैशोर और मेरा चापल्य दोनों ही त्रिभुवन में अद्भुत हैं- यह तुम जानते हो, मैं भी जाना हूँ। हे मुरलीधर ! अब उपदेश करो- तुम्हारे इस विरल मुखपंकज को जीवन भरकर देखने के लिए मैं क्या करुँ।।32।।
कृष्णवल्लभा
इदानीं श्रीगोविन्दमुखारविन्दविलोकनानन्दमनुभवितुमध्यवसायं कुर्वंस्त देवाभिलषतित्वच्छैशवमिति। त्वच्छैशवं तव चापल्यं त्रिभुवनाद्भुतं त्रिभुवनेष्वद्भुतम्। त्रिभुवन प्रकटस्वरूपेषु तादृश कैशोरमाधुरी चमत्कारा भावात्। शास्त्रयुक्तिमहत्तमानुभवैर्मया निर्द्धारित्वाच्च। यद्वा, कीदृशं शैशवं- त्रिभु त्रिषु श्रीमथुरागोकुल- वृन्दावनेषु भूः सत्ता यस्य तत्। अतएव वनानि वृन्दावनादीनाद्भुतानि येन तत्। तत्त द्वनविहरण कौतुकात्। इत्यवैहि जानीहि। तत् किम्- मच्चापलं मच्चित्तस्य त्वद्दर्शनौत्कण्ठ्येनोत्तरलता। तन्मम वाधिगम्यं तव वा, न तृतीयस्य। श्रीकृष्णरसास्वादलोभान्ममैव तावती व्यग्रता,सा च त्वया सर्वज्ञेन मया च त्वदनुभवसंमिश्रणाज्ज्ञायत् इत्यर्थः। तत्स्मात्व मुग्धं सुंदरं मुखाम्बुजं मुरलीविलासि मुरल्या विलसितुं शीलं यस्य तत्। ईक्षणाभ्यां नेत्राभ्याम्। नतु मनसा, मनसा तु सर्वदैव वीक्ष्यते। उदीक्षितुमुदुच्चैरीक्षितु द्रष्टुं विरलं विलम्बम्, किं करोमि। इदानीमेव महातीव्रतम- स्वामीष्टबावभावनावेश- प्रवृत्त- प्रगाढसमाधिना शरीरमेतद्विस्मृत्य प्रणयभर- विस्फारिताभ्यां नेत्राभ्यां वीक्ष्य परममहानन्द समुद्रे निमंक्ष्यामीति भावः। ईक्षणाभ्यामि- त्युक्तेस्त एवेक्षण इतरथा चित्रायित इति। उक्तञ्च श्रीभागवतद्वितीय स्कन्धे (2/3/22)- ‘बर्हायिते ते नयने नराणां लिंगानि विष्णोर्न निरीक्षतो ये’ इत्यादि।।32।।
|