- परामृश्यं दूरे पथि पथि मुनीनां व्रजवधू
- दृशा दृश्यां शश्वत् त्रिभुवन-मनोहारि वदनम्।
- अनामृश्यं वाचा मुनिसमुदयानामपि कदा
- दरीदृश्ये देवं दरदलित-नीलोत्पल-रुचिम्।।48।।[1]
अन्वयः – मुनीनां पथि पथि दूरे परामृश्यं व्रजवधूदृशा दृश्यं शश्वत् त्रिभुवन-मनोहारिवदनं मुनिसमुदयानामपि वाचा अनामृश्यं दरदलितनीलोत्पलरुचिं देवं कदा दरीदृश्ये (अतिशयेन पश्यामि)?।।48।।
अनुवाद- जो मुनियों के ध्यानपथ से भी दूर हैं, व्रजवधुओं के नयनों से देखे जाते हैं, जिनका वदन-सौन्दर्य त्रिभुवन-मनोहारी है, जो मुनीन्द्रवृन्द के वाक्यों के भी अगोचर हैं, जो ईषत् विकसित नीलकमल की कान्ति से युक्त हैं- उन देव को बार-बार कब देखूँगा?।।48।।
कृष्णवल्लभा
अहो श्रीकृष्णदर्शनमतिदुर्लभं यतो दृष्टेऽपि दृष्टवत् प्रतीप्यभावात्। कदा द्रक्ष्यामीत्यौत्सुक्येनाह- परामृश्यमिति। दीव्यति द्योत्यत इति देवस्तम-साधारण- दीप्तिक्रीडायुक्तं कदा कस्मिन् समये दरीदृश्ये। पुनः पुनर्द्रक्ष्यामीत्यर्थः। कीदृशं देवम्- मुनीनां मननशीलानां यो यः पन्थास्तत्र तत्र दूरे दूरतः परामृश्यं विचारणीयम्। दुर्वितर्क्यमित्यर्थः। अयं भावः- तत्र तत्र मुनयो विचारयन्ति, न तु याथाथ्येन निश्चिन्वन्ति। शुद्धप्रेमरसवर्त्मनि कस्याप्यप्रवेशात्। पुनः कीदृशम्- त्रिभुवन-मनोहारिवदनम्। त्रिभुवनविषये यन्मनस्तदपि हर्तुं शीलमस्य तादृग्वदनं यस्य तम्। अतः शश्वन्नित्यं दृश्यं द्रष्टुं योग्यम्। सर्वातिशायि-सौन्दर्य-चमत्कारवत्त्वात्। यद्वा, शश्वन्नित्यं त्रिभुवनस्य मनो यत्र हरति सर्वान्यदृष्टिम्, तादृग्वदनं यस्य। पुनः कीदृशम्- दरदलितनीलोत्पलनिभम्। दरमीषद्दलितं विकस्वरं यन्नीलोत्पलं तस्मादपि नितरां भवतीति। “दरो भये दरो गर्ते किञ्चिदर्थे दरोऽव्ययम्” इति विश्वः।[2] नीलञ्च तदुत्पलञ्चेति। नील सुगन्धिसुकुमार गुणयुक्तं वा। श्रृंगाररसमाधुर्यस्य परमोत्कर्षचमत्कारात्। नीलोत्पलदशमिति पाठे- दशेव दशा नीलसुगन्धि- सुकुमारदशा, इति। सामान्यत एव निर्दिष्ट विशिष्य निर्दिश्यतामिति चेत्तत्राह- अनिशं निरन्तरमुदयः प्रकाशो यासां तासां नित्यानामपि वाचां श्रुतीनामनामृश्यमस्पृश्यम्। एतादृशमति- दुर्ज्ञेयमपि देवं कदा तत्कृपया परोक्षतो ज्ञात्वा दरीदृश्ये। केवलयापि तत्कृपया न दृश्यत् इत्याह- व्रजवधूनां श्रीराधादि- व्रजसुन्दरीणां दृशा चक्षुषा हेतुभूतेन दृश्यम्। तासां कृपया तथा विहरमाणं सर्वे पश्यन्तीति भावः। अथवैवं योजना त्रिभुवनमनोहारिणः श्रीकृष्णस्य वदनं देवं दीप्तिमत् कदा दरीदृश्ये। अन्यत् समानमिति।।48।।
|