|
|
- प्रेमदञ्च मे कामदञ्च मे
- वेदनञ्च मे वैभवञ्च मे।
- जीवनञ्च मे जीवितञ्च मे
- दैवतञ्च मे देव नापरम्।।104।।
अन्वयः – (हे) देव ! (त्वम्) च मे प्रेमदम्, मे कामदं च, मे वेदनम् (तत्परिपाटी शिक्षकः) च, मे वैभवं च मे जीवनं च, मे जीवितं च, मे दैवतं च न अपरम्।।104।।
अनुवाद- हे देव ! तुम्हीं मेरे प्रेमदाता हो, तुम्हीं मेरे कामद (अभीष्ट पूरक) हो, तुम्हीं मेरे ज्ञान प्रदाता गुरु हो, तुम्हीं मेरी सम्पदा हो, तुम्हीं मेरे जीवन, जीवन हेतु हो, तुम्हीं मेरे देवता हो, तुम्हें छोड़ मेरा और कोई कुछ नहीं।।104।।
कृष्णवल्लभा
सम्प्रति सर्वात्मभावेन श्रीकृष्णचंद्रस्यैव स्वाश्रयणीयत्वमाह- प्रेमदञ्चेति। हे देव नापरम्। अपरं त्वदतिरिक्तं मादृशां नास्तीति भावः। तथा हि- प्रेमदञ्च मे। त्वत्तोऽपरं मम प्रेमदं नास्ति। न हि मदभीप्सित विशुद्धमधुर- प्रेमवशेषोऽन्येन दातुं शक्यः। कामदञ्च मे नापरम्। मत्कामितानन्द- प्रदत्वात्। वेदनञ्च मे। वेदनं निश्चयज्ञानञ्च में त्वमेव। त्वदिरिक्तं नान्यज्- ज्ञानप्रदमिति भावः। ननु निश्चयज्ञानं नैश्चित्ये सति महापाण्डित्यसम्पत्त्या विचारपरतायां स्यान्न त्वन्यथा, तत्राह-वैभवञ्च मे। वैभवं सम्पत्त्मेव। पाण्डित्यविचार-सम्पत्त्वमेवेत्यर्थः। ननु केवलप्रेम्णि लब्धे जीवननिर्वाहः कथं स्यात्त्त्राह- जीवनञ्च मे। जीव्यते येनोपायेन तज्जीवनं त्वमेव। त्ययैव जीविष्यामीति भावः। तत् किं प्राणधारणमिष्टम्, नेत्याह- जीवतञ्च मे। जीवितं प्राणधारणमपि त्वमेव। त्वदर्थमेव प्राणधारणेच्छा, न स्वतः। त्वत्सेवाद्यभावे तदैव गच्छन्तु प्राणाः। किञ्च दैवतञ्च मे। दैवतमिष्ट- देवस्त्वमेव। परममहा-भक्ति-सम्भ्रमेण सेव्य इत्यर्थः। यद्वा, दैवतं देवतासमूहः। सर्वदेव-कृत्यं मम तय्येवेति भावः। चैरत्रानुक्त समुच्चयो ज्ञातव्यः।।104।।
|
|