|
- कमनीय – किशोर – मुग्धमूर्तेः
- कलवेणु – क्वणितादृताननेन्दोः।
- मम वाचि विजृम्भतां मुरारे-
- र्मधुरिम्णः कणिकापि कापि कापि।। 7।।[1]
अन्वयः – कमनीय किशोर मुग्धमूर्तेः (कमनीया किशोरी मुग्धा मनोहरा मूर्तिः यस्य) कलवेणुक्वणितादृताननेन्दोः (कलवेणुक्वणितैरादृतः सर्वतः प्रशंसः मुखेन्दुः यस्य) मुरारेः (श्रीकृष्णस्य) मधुरिम्नः कापि कापि कणिकापि मम वाचि विजृम्भताम् (प्रकाशताम्)।।7।।
अनुवाद- जो कामनीय और नवकिशोर हैं, जिनकी मनोहर श्रीमूर्ति दर्शन कर त्रिभुवन मुग्ध होता है, जिनका मुखचंद्र मधुर-अस्फुट (मन्द) वेणु की सुधाधारा से परिप्लुत है- उन्हीं मुरारि श्रीकृष्ण के माधुर्य की क्षुद्रतम कणिकामात्रही सही- मेरी जिह्वा पर स्फुरित हो।।7।।
कृष्णवल्लभा
अथ कीर्तन एव तन्मधुरिमाणिमिच्छन्, धन्यास्ते येषां निर्मले मनसि विभुमुखपंकजं प्रकाशते, मम पुनः केवलमिदमेव प्रार्थनीयमित्याह कमनीयेति। मुरारेः श्रीकृष्णस्य मधुरिम्नः कणिकापि। अल्पाकणा कणिका सापि अल्पार्थे कन् ‘प्रत्ययस्थात्’ इति सूत्रेण (पा. 7/3/44) पूर्वस्यात् इत्। मम वाचि विजृम्भतां प्रकाशतां प्रार्थनायां लोट ननु इक्षुक्षीर-गुड़ादीनां माधुर्यस्यान्तरं महदिति मधुरद्रव्यस्यैव माधुर्यं निर्वक्तुम-शक्यम्, श्रीकृष्णस्य तु मधुरिमा कथमुच्यताम्, तत्राह- कापि कापि या काचित् सर्वामास्तित्यर्थः। मुरारिरित्यादिनामानि न केवलं यौगिकानि, मुरवधात् पूर्वमपि तच्छुतेः। यथा, गोविन्दाभिषेचन समय एव गोविन्दनाम्ना प्रचारे तत् पूर्वमपि “शयानं पातु गाविन्दः” इति गोविन्द-नामश्रवणात्। तेन सर्वेषामेव नाम्नां श्रीकृष्णाभिधे-यत्वम्। व्युत्पत्तिर-किञ्चित्करी, तथापि स्वमनो-विनोदनार्थं क्रियते। मुरदैत्य-स्यारिरित्यननेन वीर-रसोत्कर्ष-चमत्कारः। यद्वा, मुर बन्धने धातुः। मुरति बध्नातीति मुराविद्य, तस्या अरिः शत्रुस्तस्य। कथम्भूतस्य मुरारेः- कमनीयकिशोर मुग्धमूर्त्तेः। कमनीया कान्तमयी काम्या वा। स्पृहणीयेति यावत्। किशोरी कैशोरविशिष्टा मुग्धा सुन्दरीमूर्तिर्यस्य तस्य। कमनाः कामुक्यो गोप्यस्तासां सम्बंधिनीयम्, तदेकक्ष्यत्वात्। सा चासौ किशोरी मुग्धा चेति मूर्तिर्यस्य तस्येति वा। पुनः कीदृशस्य – कलवेणु क्वनिदादृताननेन्दोः। कलं मधुरास्फुटं यद्वेणोः क्वनितं तेनादृत आननेन्दुर्यस्य। कलवेणु-क्वणितमादृतं येन तथाभूत आननेन्दुर्यस्य वा। यद्वा, कलयति वशीकरोति गोपसुन्दरीः स्वनादेन यो वेणुस्तस्य यत् क्वणितं तेन हेतुनादरच्छलेन स्पर्शाद्यर्थं सस्मितसभाव- साभिलाष सचुम्बना-दिभिरादृत आननेन्दुर्याभिः प्रेमारूपा-भिर्गोपीभिस्तस्य। तथा च गीतगोविन्दे (1/49)- साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति– व्याजादुद्भटचुम्बितस्मित मनोहरी हरिः पातुः वः।।7।।
|
|