श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः – विभो (हे सर्वावतारिन्) भुवनं भवनम् (भुवने तव भवनं गृहम्), विलासिनी श्रीः (लक्ष्मीः), तनयः तामरसासनः (ब्रह्मा) स्मरश्च (प्रद्युम्नः), सुरेंद्राः (इन्द्राद्याः) परिचार- परंपराः (सेवकाः), तदपि त्वच्चरितम् (गोपीभिः सहवासादि) विचित्रम् (सर्वोत्तममेव)।।102।। अनुवाद- हे विभो ! निखिल भुवन तुम्हारा भवन है, रमादेवी तुम्हारी विलासिनी हैं, कमलासन ब्रह्मा और कामदेव तुम्हारे पुत्र हैं, इन्द्रादि देवगण तुम्हारे सेवक हैं, तथापि तुम्हारी व्रजलीला अत्यन्त विचित्र है।।102।। सुबोधनी अथ ‘कामं सन्तु’[4]इत्यादि पूर्वोक्तमनूद्य तद्वैशिष्ट्यं द्रढयति- हे विभो सर्वावतारिन्, यस्मिंस्त्वच्चरिते भुवनं जलं भवनं तन्मध्ये गृहम्, विलासिनी श्रीर्लक्ष्मीः, तनयस्तामरसासनो ब्रह्मा, तदपि चित्रं त्वच्चरित्रम्। किमीदृशमैश्वर्यमतया- नेत्यपेरर्थः। यत्र च त्वद्भवनं तनयः स्मरः प्रद्युम्नः, चकाराद्विलासिन्यो रुक्मण्यादयः, सुरेन्द्रा अवतारितेन्द्राद्याः परिचारपरम्पराः सेवका तदपि किमीदृशं प्रेमभक्तिमयतया- न। अतः केवलप्रेममयं गोपीभिः सह रासादि त्वच्चरितं सर्वोत्तममेव।।102।। |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज