|
|
- बालोऽयमालोल – विलोचनेन
- वक्त्रेण चित्रीकृत – दिङ्मुखेन।
- वेषेण घोषोचित – भूषणेन
- मुग्धेन दुग्धे नयनोत्सवं नः।।69।।[1]
अन्वयः – अयं बालः (किशोरः) आलोलविलोचनेन चित्रीकृतदिङ्मुखेन वक्त्रेण घोषोचितभूषणेन मुग्धेन (मनोहरेण) वेषेण नः (अस्माकम्) नयनोत्सवं दुग्धे (प्रपूरयति)।।69।।
अनुवाद- ये किशोर अपने चञ्चल नयनों से, सभी दिशाओं के शोभावर्धक श्रीमुख से, ब्रजगोपों के योग वेश-भूषण द्वारा हम लोगों का नयनोत्सव प्रपूरित (संपन्न) कर रहे हैं।।69।।
कृष्णवल्लभा
किञ्च मदीयनेत्रोत्सवं पूरयन्नायातीत्याह- बालोऽयमिति। अयं बालः सुकुमारः। अयमित्यंगुल्या निर्द्दिशति। मुग्धेन मनोहरेण वक्त्रेण वेषेण च नोऽस्माकं नयनोत्सवं दुग्धे। दुहिरुभयपदी प्रयूरयतीत्यर्थः। नोऽस्मान्नयनोत्सवं दुग्ध इति द्विकर्मता वा। अन्यदोहस्तु पाणिनैव, अयन्तु वक्त्रेण वेषेण चेति व्यतिरेकालंकारो ध्वनितः। कीदृशेन वक्त्रेण- आलोलविलोकितेन। आलोलं चञ्चलं विलोकितं दर्शनं यस्मिंस्तेन। कीदृशेन वेषेण- घोषोचितभूषणेन। घोष आभीर- निवासस्तदुचितं भूषणं शिखिपिच्छगुञ्जाधातुराग- पल्लवाद्यलंकृतियं तेन। पुनर्वक्त्रेण कीदृशेन वेषेण च- चित्रीकृतदिङ्मुखेन। चित्रीकृतं दिङ्मुखं येन तेन च। चिकुराणां श्यामिम्ना, लोचनयोररुणिम्ना, स्मितसुधाया धवलिम्ना, कुण्डलयोः पीतिम्ना, अधरस्य शोणिम्ना, गुञ्जाधातुरागपल्लवा।। विचित्रिम्ना सर्वमेव दिङ्मुखं चित्रीकृतमिति।
- “केशच्छवि – तिलकच्छवि – नयनच्छवि – सुस्मितच्छविभिः।
- अधरच्छवि – बहुरत्नाञ्चितकाञ्चन – कुण्डलच्छविभिः।।
- परमसुचिक्कण – कृष्णादिकवर्णादिभि – र्दिशश्चिन्नाः।
- कुर्ब्बदतिमोहनं श्रीमुखं स्मरत राधिकाबन्धोः।।”।।69।।
|
|