|
|
- माधुर्येण विवर्द्धन्तां वाचो नस्तव वैभवे।
- चापल्येन विवर्द्धन्तां चिन्ता नस्तव शैशवे।।105।।[1]
अन्वयः – (हे देव!) तव वैभवे (सौन्दर्य- विलासैश्वर्यादौ) नः वाचः माधर्येण विवर्द्धन्ताम् (तत्तन्माधुरीं वर्णयिन्तुं समर्थाः भवन्तु तथा,) तव शैशवे (कैशोरे) नः चिन्ता चापल्येन विवर्द्धन्ताम्।।105।।
अनुवाद- हे देव ! तुम्हारे सौन्दर्य- विलास आदि के वर्णन में मेरा वाक्य (तुम्हारे) माधुर्य के साथ वर्धित हो और तुम्हारे कैशोर के चिन्तन में मेरी सारी चिन्ता (चिन्तन शक्ति) चपलता के साथ वृद्धिप्राप्त करे।।105।।
कृष्णवल्लभा
हे विभो किमत्र वक्तव्यम्। वाचां शक्तिरेतादृशी नास्ति, यथा तव रूपलावण्यमाधुर्यादि- सम्पद् वृद्धिस्तथैव मम वाक्प्रसरः स्यात्। तथापीदं प्रार्थये- माधुर्येणेति। तव वैभवे रूपालवण्यादिसम्पत्तौ माधुर्यैण सह नोऽस्माकं वाचो विवर्द्धन्ताम। तव शैशवे चापल्ये यद्वा, शिशुसम्बन्धितरुणिमा शैशवम्, कैशोरमित्यर्थः। चापल्येन सह नोऽस्माकं चिन्ता अनुस्मृतयो विवर्द्धन्ताम्। तत्र धैर्यं माभूत्। तच्चापल्येऽस्माकमपि वाङ्नेत्रश्रुति- चापल्यं स्यादित्यर्थः।।105।।
सुबोधनी
ततस्तदेव प्रार्थयन्नाह- तव वैभवे सौन्दर्य- विलासैश्वर्यादौ नो वाचो माधुर्येण विवर्धन्ताम्। तत्तन्माधुरी वर्णनसमर्था भवन्तित्वत्यर्थः। तथा, तव शैशवे नश्चिन्ता- स्त्वत्प्राप्त्युत्क-ण्ठाश्चापल्येन विवर्धन्ताम्। त्वत्कैशोरस्मरणमपि चापल्येन भवत्वित्यर्थः।।105।।
सारंगरंगदा
ततः साधु लीलाशुक साधु, त्वद्दृढतया प्रीतोऽस्मि, तन्मद्दर्शनं विफलं न स्यात्, प्रार्थय वाञ्छितमिति भंग्या तेनाम्रेडितः स्वेप्सिसतं भंग्या प्रार्थयन्नाह- तब वैभवे वाग्विषयातीते सौन्दर्यविला- सैश्वर्यादौ नोऽस्माकं वाचो माधुर्येण विवर्द्धन्ताम्। तत्तन्माधुरीवर्णन समर्था भवन्त्विति भावः। तथा, तव शैशवे कैशोरऽयोग्यदेहादीनामपि नश्चिन्ताः
प्राप्त्युत्कण्ठ्या तच्चिन्तानि चापल्येन विवर्द्धन्ताम्। अयमेव मे वर इत्यर्थः।।105।।
|
|