- सोऽयं विलासमुरलीनिनदामृतेन
- सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम्।
- आयाति मे नयनबन्धुरनन्यबन्धो
- रानन्दकन्दलित केलिकटाक्षलक्ष्मीः।।79।।[1]
अन्वयः– अयं स मे (मम) नयनबन्धुः अनन्यबन्धुः आनन्दकन्दलितकेलिकटाक्षलक्ष्मीः (आनन्देन कन्दलिताः ये कटाक्षा तेषां लक्ष्मीः शोभा यत्र सः) विलासमुरलीनिनदामृतेन इदं मम उदञ्चितम् (श्रवणोन्मुखम्) कर्णयुग्मं सिञ्चन् आयाति।।79।।
अनुवाद- ये वही मेर् नयनबन्धु आ रहे हैं। आहा ! इन्हें छोड़ मेरा और बन्धु नहीं। इनके केलियुक्त कटाक्ष आनन्द कन्दलित है। विलासयुक्त मुरली के अमृत नाद से मेरे श्रवणोन्मुख कर्णों में अमृतधारा उड़ेलते-उड़ेलते ये मेरे समीप आते जा रहे हैं।।79।।
कृष्णवल्लभा
पुनरपि तदागमनं वर्णयन् कमपि विशेषमाह- सोऽयमिति। सोऽयं य एतावत्कालं परोक्षरूपा आसीत् स इदानीमयं साक्षाद्विद्यते। अनन्यबन्धोः, न विद्यतेऽन्यः श्रीकृष्णाद्विना, बन्धुर्यस्य तस्य, मे मम नयन बन्धुर्नेत्रसन्तापहारी। नयने बध्नाति स्वश्रवणे करोतीति वा। आयाति, मां सुखयितुमिति शेषः। अहो मद्भाग्यपरम्परा। कीदृशः- आनन्दकन्दलित-केलिकटाक्षलक्ष्मीः। आनन्देन कन्दलिताः सप्ररोहा ये कटाक्षा गतागतविश्रान्ति-विचित्रवर्तनापूर्वक-नयनविलासास्तेषां लक्ष्मीः शोभा यत्र सः। न केवलं रूपलीलायाश्चाक्षुषापरोक्षवद्भानमपि तु शब्दस्यापि श्रावणप्रत्यक्ष-प्रायतामाह। किं कुर्वन्नायति-विलासमुरली-निनदामृतेन। विलासनिमित्तभूता विलासयुक्ता वा या मुरली तस्या निनादः स एवामृतं तेनोदञ्चितमुत्सुकं श्रवणाभिनिवेशोन्नमितं वा। गोलकेन्द्रिययोरभेदारोपादेवमुक्तिः। इदं मदीयं मदकर्णयुग्यं माद्यत्कर्णयुगलं सिञ्चन्नायाति।।79।।
|