- शुश्रुषसे शृणु यदि प्रतिधानपूर्वं
- पुर्वैरपूर्वकविभिर्न कटाक्षितं यत्।
- नीराजनक्रमधुरां भवदाननेन्दो-
- र्निर्व्याजमर्हति चिराय शशिप्रदीपः।।98।।[1]
अन्वयः– यदि शुश्रूषसे (तदा) पूर्वैरपूर्व- कविभिः यत् न कटाक्षितं तत् प्रणिधानपूर्वं शृणु। शशिप्रदीपः भवदाननेन्दोः चिराय निर्व्याजं निराजनक्रमधुराम् अहंति।।98।।
अनुवाद- यदि सुनना चाहते हो, तो (उस बात को) प्रणिधान्यपूर्वक सुनो, जिस पर पहले के कवियों ने कटाक्षपात भी नहीं ? चिरकाल निष्कपट भाव से तुम्हारे मुखचंद्र का नीराजन (आरति) करने का भार पाने के योग्य हो गया है।।98।।
कृष्णवल्लभा
अथ श्रीकृष्णं प्रत्येव स्वकृतां तन्मुखेन्दु- वर्णनामाह- शुश्रूषस इति। हे विभो यदि शुश्रूषसे श्रोतुमिच्छसि तदा प्रणिधानपूर्वम्- वधानपूर्वकं शृणु, पूर्वैः प्राचीनैरपूर्वकविभिः। अपूर्वा अद्भुता ये कवयस्तैः। यन्न कटा क्षितमल्पमपि न दृष्टम्। किं तदित्याह- शशिप्रदीपो भवदाननेन्दोर्भवतस्तवाननचंद्रस्य नीराजनक्रमधुरां निर्मञ्छन-परिपाटीभारं निर्व्याजं निष्कपटं चिराय चिरमर्हति योग्यो भवति। चंद्रस्तव वदनस्योपमां नार्हत्येव किन्तु निर्मञ्छनार्थं प्रदीप इवार्हतीत्यर्थः। अन्यप्रदीपेनोष्णेनानाह्लादकेन कृष्णमुखनीराजस्यानौचित्यात्। श्रीकृष्णमुखेन्दौ विभ्राजमाने चिदचिल्लोकमात्रप्लावि- परमानन्द- सुधारसशिशिर- चंद्रिकाम्भो- धिवर्षिण्यन्यचंद्रस्य प्रयोजनाभावाद्वेति भावः।।98।।
सुबोधनी
तर्हि यथा शक्य से तथैव कथयेति चेत्तत्र सनर्माह- यदि श्रोतुमिच्छसि तर्हि सावधानं शृणु। किं तदिति सगर्वमाह- प्राचीनैराधुनिकैरपि कविभिर्नेक्षितमिति यत्। तदेव किम्- अयमिन्दुर्निष्कपटं यथा स्यात्तथा चिराय चिरकालं व्याप्त तन्मुखमाराध्य शशिप्रदीपः कर्पूरदपो भूत्वा भवदाननेन्दोर्नी-राजनस्य क्रमे क्रमदीपमण्डले या धूर्भारः। तदधिकार इत्यर्थः। तामर्हति तन्मण्डलं प्रविश्य त्वन्मुखं निर्मञ्ध्य दूरे प्रक्षेप्तुं योग्यो भवति। नोपमायोग्य इत्यर्थः।।98।।
|