मम चेतसि स्फुरतु वल्लवीविभो-
- र्मणिनूपुर प्रणयि मञ्जु शिञ्जितम्।
- कमलावनेचर – कलिन्दकन्यका –
- कलहंस कण्ठ कलकूजितादृतम्।।17।।
अन्वयः – कमलावनेचर-कलिन्दकन्यका- कलहंस कण्ठ कलकूजितादृतम् (कमलायाः श्रीराधायाः वने चरन्तः ये तत्पालिताः कालिन्दीकलहंसाः तेषां कण्ठस्थित-मधुरध्वनिबिरादृतम्) वल्लवीविभोः (श्रीराधारमणस्य) मणिनूपुर- प्रणयि- मञ्जुशिज्जितम् (मणिनूपुरयोः प्रणयः अस्ति यत्र तद् वल्लव्याः नूपुरध्वनिमिश्रितं मनोहरध्वनिः) मम चेतसि स्फुरतु।।17।।
अनुवाद- कालिन्दी के कमलवनों में विचरने वाले कलहंसों के कण्ठनिः सृ कूजन से भी अधिक मधुर श्रीराधारमण श्रीकृष्ण के मणिमय नूपुरों का मनोज्ञ शिञ्चन मेरे चित्त में स्फुरित हो।।17।।
कृष्णवल्लभा
ततश्चातिमनोहरत्वेन तच्चरणनूपुरशिञ्जितं वर्णयेयमिति मन्वानस्तत्स्फूर्तिमाशास्ते- मम चेतसीति। वल्लवीविभो-र्वल्लवीनां गोपसुन्दरीणां विभोः। तदनुरागतारतम्येन विविधो भवतीति विभुस्तस्य वल्लवीसहितस्य विभोर्वा। मञ्जु मनहोरं कर्णरम्यं शिञ्जितं भूषणध्वनिः। भुषणानान्तु, शिञ्जितमित्यमरः (1/5/24)। मम चेतसि स्फुरतु। तच्छिञ्जतश्रवणणानन्दानुभवः स्फूरत्विति प्रार्थनायां लोट्। कीदृशं शिञ्जितम्- मणिनूपुर प्रणयि। मणि र्हीरकस्तन्मयोर्नूपुरयोः प्रणयि प्रेमपात्रम्। ताभ्यां प्रणयि स्निग्धनं वा। पुनः कीदृशम्- कमलावनेचर- कलिन्दकन्याका- कलहंसकण्ठ- कलकूजितादृतम्। कमला लक्ष्मीस्तन्निवासभूतं वनं कमलावनं पद्मवनं तत्र चरन्तीति। चरेष्टः (पा. 3/2/16) इति टः। तत्पुरुषे कृति बहुलम् (पा. 6/3/14) इति सप्तम्या अलुक्। कमलावनेचरास्ते च ते कलिन्दकन्याका यमुना तत्संबंधिनस्तत्र स्थिता वा ये कलहंसा कलहंस्यश्च कलहंसाश्चेत्येकशेषः। हंसविशेषाः। “कादम्बः कलहंसः स्यादित्यमरः” (2/5/24)। तेषां यत् कण्ठस्थितमतएव कमलव्यक्तमधुरं यत् कूजितं ध्वनिस्तेनादृतं कृतादरम्। अत्युत्कृष्टतया कृतगौरवमित्यर्थः। पद्मवनचारित्वेन मृणालादिभक्षणेन मत्तता ध्वनिरम्यता च सूचिता। कालिन्दीसम्बन्धोक्त्या ते हंसा नान्यत्र गच्छन्त्युत्कृष्ट जलाशयत्वाभावादिति सूचितम्। चरणतलयोः पद्यौपम्यम्; कलिन्दकन्यकेति चरणोपरिभागयोर्हंसतुल्यतेति यथायथमूह्मम्। अनेन चरणाविन्द सौभाग्यातिशयनूपुर- शोभातिशय- ध्वनिमनोहरत्वा- दिकमिति ध्वनितम्। तथा श्रीवृन्दावन-कुञ्मञ्जु- तरवीथिसंकेतेन प्रतिचलतो नूपुरध्वनिः स्फुरत्वितिनिर्गलितार्थः।।17।।
|