- मणिनूपुर- वाचालं वन्दे तच्चरणं विभोः।
- ललितानि यदीयानि लक्ष्माणि व्रजवीथिषु।।16।।[1]
अन्वयः- यदीयानि ललितानि लक्ष्माणि (चिह्नानि) व्रजवीथिषु (अभिसरण- मार्गेषु विराजन्ते), विभोः (श्रीकृष्णस्य) मणिनूपुरवाचालम् (मणिनूपुराभ्यां वाचालं मुखरम्) तच्चरणं वन्दे।।16।।
अनुवाद- व्रज के पथ-पथ पर जिन चरणों के ध्वज-वज्र- अंकुश आदि मनोहर चिह्न विराजित हैं, मणिनूपुरों की ध्वनि से मुखरित श्रीकृष्ण के उन्हीं श्रीचरणों की वन्दना करता हूँ।।16।।
कृष्णवल्लभा
पादसरोरुहाभ्यामा-क्रीडतामित्युक्तम्। सम्प्रति श्रीकृष्णस्य परमसुन्दरत्वात्तच्चरणं स्तुवन् स्वान्तर्भावविलसितमाविष्करोति मणीति। विभोः श्रीकृष्णस्य तच्चरमणिरूप्य-माधुर्या-द्येकदेशच्छटा-कोट्यां सौभाग्यस्यापि महता यत्नेनापि हृद्यस्फुरणाद्वन्दे स्तौमि नमामि च। कीदृशं तच्चरणम्- मणिनूपुरवाचालम्। मणिमयौ नूपुरौ वाचालौ बहुभाषिणौ यत्र तत्। आलजाटचौ बहुभाषिणि (पा. 5/2/125) इति सूत्रम्। तत्र कुत्सायां वाच्यम् (वार्तिक)। त्वन्यत्र भगवद्व्यतिरिक्ते वस्तुनि संगच्छते। तौ हि चरणाम्बुजरसमत्तौ मधुरमधुरं नदत इति भावः। यद्वा, मणिमयनूपुरवाचालं भूषणम्। तास्तत्रैवाधिकं शोभन्त इत्यर्थः। मणिनूपुरौ येन प्रेमामृतेनाचलौ निःस्पन्दौ यत्र वा। एतेन वंशीवादनसमयो व्यज्यते। तेन श्रीकृष्णस्य वस्त्रभूषण-मालादीनि सचेतनानि श्रीकृष्णरस-मनुभवन्तीत्युक्तम्। अनुभूतं तच्चरणमभिनयव-द्दर्शयति यदीयानि यस्य चरणस्येमानि लक्ष्माणि चिह्नानि ध्वजवज्रांकुशाम्भोज-रूपाणि व्रजस्य वीथिषु वर्त्मसु ललितानि मनोहराणि दृश्यन्त इति शेषः। यदीयानि लक्ष्माण्येवाति-सुंदराणि तस्य चरणस्य सौन्दर्य कथं वर्णनीयं मयेति भावः।।16।।
सुबोधनी
अथ चरणवर्णनोद्यल्लीलाविशेषस्फूर्त्या तद्वर्णनायादौ तदभिसारोत्तरलं चरणं प्रणमितिविभोः सर्वसमाधानपूर्वकाभिसरण-समर्थस्य तच्चरणमत्यौत्सुक्येन शीघ्रगमनायोत्तरलं वन्दे। तद्व्यनक्ति- मणिनूपुराभ्यां वाचालं द्रुतगत्या मुखरम्। अतएव तदीयानि चिह्नानि व्रजवीथिप्वभिसरण– मार्गेषु विराजन्ते। यैरध्वभिरागतस्तानपि वन्द इत्यर्थः।।16।।
|