मयि प्रसादं मधुरैः कटाक्षै-
- र्वंशी – निनादानुचरै- र्विधेहि।
- त्वयि प्रसन्ने किमिहापरैर्न-
- स्त्वय्यप्रसन्ने किमिहपरैर्नः।।29।।[1]
अन्वयः – वंशीनिनादानुचरैः मधुरैः कटाक्षैः मपि प्रसादं विधेहि। त्वयि प्रसन्नेन इह अपरैः किम्। त्वयि अप्रसन्ने न इह अपरैः किम्? (त्वयि प्रसन्ने परैः अप्रसन्नैः अस्माकं किं स्याद् न किमपि। त्वयि अप्रसन्ने परैः वा किम्?)।।29।।
अनुवाद – वंशीनिनाद के अनुचर मधुर कटाक्ष द्वारा मेरे प्रति प्रसन्नता दिखाओ। तुम प्रसन्न रहो; तो अन्य के अप्रसन्न होने से भी हम लोगों की क्षति नहीं। तुम अप्रसन्न होंगे, तो अन्य की प्रसन्नता से भी हमारा क्या होगा?।।29।।
कृष्णवल्लभा
इदानीं स्वाभीष्टपदलाभाय श्रीकृष्णं प्रार्थयते- मयीति। हे व्रजनाथ मधुररैर्मधुररसमयैः। यद्वा, मधूनि मदाकानीतर- रसविस्मारकाणि प्रेमरसरूपाणि रान्ति ददतीति तादृशैः कटाक्षै- स्तारकागतागत- विश्रान्ति सहित विचित्रवर्तनापूर्वक – नयन- भंगीभिः प्रसादं प्रसन्नतां विधेहि कुरु। कीदृशैः कटाक्षैः – वंशीनिनादानुचरैः। वंशीनिनादा अनुचरन्ति येषु तैः। वंशीनिनादानुचरन्ति वा। अत्र किं व्रुमः- त्वयि प्रसन्ने एवं प्रसादं कृतवति सतीहेदृशेऽतिदुर्लभेऽप्युद्देश्य- वस्तुति तत्प्राप्तावपरेः साधनैः किम्। त्वत्प्रसादमात्रेण स्यादित्यर्थः। त्वय्यप्रसन्ने एतादृशप्रसादमकुर्वति। त्वञ्चेन्न प्रसीदसीत्यर्थः। अपरैः साधनैः किम्। फलानिष्पत्तेः। विघ्नसहस्र- सम्भवादिति भावः। अस्मज्जीवन- सर्वस्वभूतवान्नाम- श्रवणमात्रमेव परम्, यदि पुनस्त्वं वंशीनादानुचर- कटाक्षामृतेनास्मान्सिञ्चसि तदा किं व्यक्तव्यमिति महानुत्कर्ष- चमत्कारः।।29।।
सुबोधनी
ततस्तत्स्फूर्त्यानन्दावेशेन सगर्वमाह- हे नाथ मधुरैः कटाक्षैर्मयि प्रसादं कुरु। तन्मादुर्यमेव व्यनक्ति वंशीनिनादं पुनः केलौ प्रियाप्रेरणरूपमनुचरन्ति ये तैः। तेन किं स्यात्- त्वयि प्रसन्नेऽपरैर- प्रसन्नैरस्माकं किं स्यात्। न किमपि। त्वय्यप्रसन्नेऽपरैः प्रसन्नैर्वा किम्।।29।।
|