श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः व्रजसुंदरीभिः अनुक्षणम् (निरंतरम्) अभंगुराभिः (अवक्राभिः) अनंगरेखा-रसरञ्जताभिः (अनंगरेखायाः तत् परम्परया यो रसस्तेन रञ्जिताभिः भाविताभिः) आपांगरेखाभिः (अविच्छिन्ननेत्रान्त दृष्टिधाराभिः) अभ्यस्यमानं विभुम् आश्रयामः।।10।। अनुवाद- व्रजसुंदरियाँ सरल अपांगरेखारससे रंञ्जित अपने नयन प्रांतों की अविच्छिन्न दृष्टिधारा निक्षेप कर जिनका माधुर्य निरंतर आस्वादन करती हैं, हम उन्हीं विभु का आश्रय लेते हैं।।10।। कृष्णवल्लभा “विशेषास्त्वंगना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी।। सुंदरी रमणी रामेति”। अपांगलेखाभिः करणरूपाभिः। अपांगनां नेत्रान्तानां लेखाभि रेखाभिः। रलयोरैक्यात्। श्रेणीरेखास्तु राजयः इत्यमरः (2/3/4)। यद्वा, अपांगेषु रेखावत्कज्जलरेखावत्स्थिता दीर्घीभूता दृष्टयस्ताभिरनुक्षणं क्षणे क्षणेऽभ्यस्यमानं विषयीक्रियमाणम्। गच्छागच्छ तिष्ठोत्तिष्ठेत्यादिवद् वशीक्रियमाणमित्यर्थः। संतत-दृष्टितोऽपि तृप्तौ जातायां विरतिः स्यात्, सा तु नास्तीत्याह अभंगराभिर-विच्छिन्न-प्रवाहरूपाभिः। स्वतस्तृप्त्या भज्यते न, किन्तु विषयस्यान्यतो गमनादिनैवेति भावः यद्वा, अभ्यस्तोऽभ्यस्यनीयोमानो यस्मिंस्तम्। तन्मुख मधुरिमावलोक-नान्मानस्यानवस्थितेः। तथा शरणः (पद्यावल्याम्- 235)- |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज