श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः – हे विभो ! यावद् मे (मम) कः अपि तापः (दुःखविशेषः) निखिलमर्मदृढाभिघातं (निखिलानां मर्मणां दृढोऽतिशयोः अभिघातो यत्र तादृशं) निःसन्धिबन्ध (निर्गतं सन्धीनां बन्धनं श्लेषः यथा भवति तथा) न उपैति (प्राप्नोति), तावद् मम चित्तधारार तावक- वक्त्रचंद्रचंद्रातपद्विगुणिता (चंद्रातपाच्छादिता) भवतु।।37।। अनुवाद- हे विभो ! जब तक कोई अनिर्वचनीय तताप मेरे अखिल मर्मस्थलों को दृढ़ता से आहत न करे, तब तक अर्थात् उससे पूर्व ही मेरी चित्तवृत्ति- धारा तुम्हारे इस श्रीमुखचंद्र – चंद्रातप द्वारा समाच्छादित हो जाए।।37।। कृष्णवल्लभा
तावकवक्त्रचंद्रचंद्रातपद्विगुणिता भवतु। तावकं त्वदीयं वक्त्रमेव चंद्रस्तस्य ये चंद्रातपाश्चंद्रिका स्ताभिर्द्विगुणिता परमहानन्द- प्रफुल्लसर्वांगत् दतिशयस्फीता भवतु। त्वन्मुखचन्द्रसविधे हि द्विगुणसौन्दर्य- माधुर्यादिमत्त्वातथा मम स्फुरत्वित्यर्थः। चंद्रातपद्विगुणितेति चित्तस्य समुद्रत्वं व्यंग्यम्। “चंद्रातपश्चन्द्रिकायां विताने स्वर्णतेजसि” इति व्याडिः। यद्वा, तावकवक्त्रचंद्र एव चन्द्रः कर्पूरम्। सुगन्धशीतलाल्हादकत्वात्। तस्य य आतपः प्रकाशस्तेन द्विगुणिता। प्रकाशोद्योति आतपः। अथ कर्पूरमस्त्रियाम्। घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमबालुका।। इत्यमरः।। प्रकाशो धवल एवेति कविसम्प्रदायः। अथवा, हे विभो ! कोऽपि तापो यावन्निखिलमर्मदृढ़ाभिघातं यथा भवति तथा बन्धनं परिपाकं नोपैति। कीदृशम्- निःसन्धि दृढ़ग्रन्थि। सन्धेरशैथिल्यान्मोचयितुमशक्यम्। अन्यत् समम्।।37।। |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज