- वक्षः स्थले च विपुलं नयनोत्पले च
- मन्दस्मिते च मृदुलं मदजल्पिते च।
- बिम्बाधरे च मधुरं मुरलीरवे च
- बालं विलासनिधिमाकलये कदा नु।।66।।[1]
अन्वयः – वक्षःस्थले च नयनोत्पले च विपुलं मन्दस्मिते च मदजल्पिते च मृदुलं बिम्बाधरे च मुरलीरवे च मधुरं विलासनिधिं बालम् (किशोरम्) कदा नु आकलये (पश्यामि) ?।।66।।
अनुवाद- जिनके वक्षस्थल और नयनकमल विशाल हैं; मन्द हास्य और मदजल्पना मृदुल हैं; बिम्बाधर एवं मुरलीरव मधुर हैं- उन विलासनिधि किशोर को कब देख पाऊँगा?।।66।।
कृष्णवल्लभा
अथ दृढभावनाभावितान्तःकरणोऽग्रतः स्फुरत्तद्रुपनिश्चायकतामनुभवन्नाशास्ते- वक्ष इति। न्वति प्रश्ने। विलासनिधिं बालं कदालोकये इत्यन्वयः। विलासा निधीयन्तेऽस्मिन्निति तं बालं प्रकृष्टपुरषम्। यथा बालाशब्दः स्त्रीविशेष- परस्तथात्रापि। वलत इति कर्तरि घञ्। कदा कस्मिन् समय आलोकये। स्वभावतस्तदत्याकृष्टचेता आलोकयिष्यामि। कीदृशं बालम्- वक्षःस्थले च नयनोत्पले च विपुलं महत्तरम्। मन्दस्मिते च मदजल्पिते च। मदेन यज्जल्पितं तस्मिन्। मृदुलं मृदुं लाति गृह्रातीति तथा तम्। बिम्बाधरे च मुरलीरवे च मधुरं मधुररसप्रदम्। नयनश्रवणयो-रमृतवर्षीत्यर्थः। अत्र तत्तत्स्थान- सौन्दर्यमाधुर्य-लावण्या-धिक्यसूचनार्थ च-समुच्चयः।।66।।
सुबोधनी
पुनस्तदपगमे सलालसमाह- न प्रश्ने, बालं किशोरं कदाकलये द्रक्ष्यामीत्यर्थः। किशोरत्वं व्यनक्ति- वक्षःस्थले नयनोत्पले च विस्तीर्णम्। मन्दस्मिते मदजल्पिते च मृदुलम्। बिम्बाधरे मुरलीरवे च मधुरम्। अतएव विलासनिधिम्। तत्समुद्रमित्यर्थः।।66।।
सारंगरंगदा
नन्वधुनैव तं द्रक्ष्यसि, क्षणं धैर्यं कुर्विति पुनस्ताभिः प्रबोधितायाः सलालसं वचोऽनुवदन्नाह- नु भोः सख्यः, तं विलासनिधिं तत्समुद्रं बालं नवकिशोरं कदाकलये। द्रक्ष्यामीत्यर्थः। कीदृशम्- वक्षःस्थले च नयनोत्पले च विपुलं विस्तीर्णम्। मन्दस्मिते च मदजल्पिते च मृदुलम्। बिम्बाधरे च मुरलीरवे च मधुरम्। दशाद्वये सुगमम्।।66।।
|