श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः– अस्य विभोः वपुः मधुरम्। वदनं मधुरं मधुरं मधुरम्। अहो ! मधुगन्धि मृदुस्मितं मधुरं मधुरं मधुरं मधुरम्।।92।। कृष्णवल्लभा अथ श्रीकृष्णस्य प्रतिक्षणमनन्यमाधुरी – विशेषमनुभवन्नाह- मधुरमिति। अस्य पुरः स्फुरतो विभोर्विविधं भवतीत्येवमनन्तरूपस्य श्रीकृष्णस्य मधुरं सहजरमणीयमपि वपुः पुनर्मधुरम्। राधया सह केलिकलारसेनातिरमणीयमित्यर्थः। मधुरं वपुरिति सामान्येन समुदायमुक्तवावयवं वर्णयति- वदनं सहजकान्ति- विशेषदयेन मधुरमपि मधुरम्। दृष्टिवाग्विलासादि- चिह्नेनाति- मधुरमित्यर्थः। अहो आश्चर्यम्। एतन्मृदुस्मितं मधुरं महामधुरमपि पुनर्मधुरम्, ततोऽपि पुनर्मधुरमिति माधुरी-प्रवाहवदिति। तत्र हेतुः- मधुगन्धिमृदु- स्मितम्। मधूनि च गन्धाः सौरभाणि च भूयांसि सन्त्यत्र, एतादृशं मृदुस्मितं यत्र तत्।।92।। सुबोधनी तदुपभुक्ततदभंग-माधुर्यालोकात् सहर्षमाह- अहो, अस्य विभोः कृतसर्व-समाधानस्य वपुर्मधुरं मधुरं परमास्वाद्यमपि तद्भुक्ततयातिमधुरम्। पुनः श्रीमुखमालोक्याह- वदनं तु तद्दशनक्षताधरादिभिर्मधुरं मधुरं मधुरम्। अतितरां मधुरमित्यर्थः। तत्र च तदधरमधुगन्ध-युक्तमेतन्मृदुस्मितं तु मधुरं मधुरं मदुरं मधुरम्। अतितमां मधुरमित्यर्थः।।92।। |
टीका टिप्पणी और संदर्भ
- ↑ तोटकं छन्दः
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज